पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२६
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( पर्वनिर्णयः )
 

 कर्तव्यतोक्ता संग्रहे--

"पार्वणेष्टिं चाऽऽग्रयणं संध्योपासनकर्म च ।
अग्निहोत्रं पाकयज्ञानन्यान्यपि मलिम्लुचे ।
कुर्यान्नित्यानि कर्माणि न प्रारम्भ इति स्थितिः' इति ।

 स्मृत्यन्तरेऽपि--

"मलिम्लुचे मासि पौषे नान्वारम्भणमिष्यते ।
गुरुभार्गवयोर्मौढ्ये चन्द्रसूर्यग्रहे तथा" इति ।

 एतद्वचनद्वयमालस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भविषयम् । कालप्राप्तस्याऽऽरम्भे न दोषः ।

 तथा च गर्गः--

"नामकर्म च दर्शेष्टिं यथाकालं समाचरेत् ।
अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे" इति ।

 नामकर्मग्रहणं नित्यनैमित्तिकस्मार्तकर्मोपलक्षणम् । दर्शेष्टिग्रहणं नित्यनैमित्तिकश्रौतकर्मोपलक्षणमिति प्रयोगपारिजातहेमाद्यादयः ।

 मण्डनस्तु--

"आधानानन्तरं पौर्णमासी चेन्मलमासगा ।
तस्यामारम्भणीयादि न कुर्वीत कदाचन" इत्याह ॥

 'नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन य[१]जते' इति सूत्रेण पौर्णमास्यमावास्यात्मकेषु पर्वस्वाग्नेयस्थालीपाकानुष्टानमुक्तम् । तत्र तयोः पौर्णमास्यमावास्ययोः स्वरूपं गोभिल आह--

"यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्ण-
मासी, यः परमः संनिकर्षः साऽमावास्या" इति ।

 दर्शशब्दो दृश्यते योगिभिरेव चन्द्रमा यत्रेति व्युत्पत्त्या मनुष्यैर्न दृश्यते चन्द्रमा यत्रेति विपरीतलक्षणया वाऽमावास्याया एव वाचकः । 'दर्शः सूर्येन्दुसंगमः' इतिकोशात् । सूर्येन्द्वोः संगमो यत्रेत्यर्थः ।

 तत्र पूर्णिमानिर्वचनं मत्स्यब्रह्माण्डपुराणयोः--

"कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् ।
चन्द्रादित्यौ पराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता" इति ॥

 पराह्णे सूर्यास्तमयकाले यथाऽऽदित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रः संपूर्णमण्डलः सन्नुदेतीतिदृष्टान्तदार्ष्टान्तिकभावविवक्षया चन्द्रादित्ययोरुपन्यासः ।



  1. ग. यजेत ।