द्धिपूर्वकवेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यं संस्कारं करिष्य इति संकल्पं कुर्यात् ।
ततस्तदङ्गत्वेन पुण्याहादिवाचनं मातृकापूजनं नान्दीश्राद्धं ग्रहयज्ञमङ्कुरारोपणं मण्डपदेवताप्रतिष्ठापनं च करिष्ये । तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं यथाचारं कुलदेवतादिपूजनं [च] करिष्य इतिसंकल्पाद्यङ्कुरारोपणान्तं कुर्यात् । पूर्वमङ्कुरारोपणं पश्चाद्ग्रहयज्ञ इति वा क्रमः । इन्द्रः प्रीयतामिति पुण्याहवाचने विशेषः ।
अथवा ग्रहयज्ञाङ्कुरारोपणे प्रधानसंकल्पात्पूर्वमेव कर्तव्ये । अस्मिन्पक्षे नास्मिन्संकल्प एतयोरुल्लेखः ।
उपनयनस्य वेदाध्ययनार्थत्वेन द्विजत्वसंपादकत्वेन च विशिष्टत्वात्तत्र निर्विघ्नतासिद्ध्यर्थं ग्रहयज्ञात्पूर्वं विनायकशान्तिमपि पृथगेव कुर्यात्तन्त्रेण वा । सा च शान्तिरत्नमालायां द्रष्टव्या ।
ग्रहयज्ञस्तु प्रधानसंकल्पदिनात्प्राक्सप्तदिनमध्ये दशदिनमध्य एव वा कर्तव्यः ।
"मण्डपस्थापनदिनात्पुरा ग्रहमखं चरेत् । |
इति ज्योतिःसागरवचनात् । मण्डपस्थापनदिनात्प्रधानसंकल्पदिनात्पुरा प्राक्, ग्रहमखं ग्रहयज्ञं चरेत्कुर्यात् । तत्र कालनियममाह दशाह इति । ततो दशाहात्सप्ताहाद्वा प्राङ्नैव तं ग्रहमखं कुर्यादित्यर्थः । अत्र गौर्यादिमातृका गणपत्यादयश्च वंशपात्रोपरि वस्त्रं प्रसार्य तत्र संस्थाप्याः ।
ततो यथाचारमाम्रादिप्रशस्तवृक्षपर्णवेष्टिता दूर्वाः शमीशाखाः सूत्रेण षोढा वेष्टयेत् । तत्रैकत्र मुशलमेकत्र च्छुरिकाशस्त्रं मध्ये प्रक्षिप्य वेष्टनीयम् । ततस्ताः शाखा मातृकावंशपात्रे निधाय तासु चतसृषूदक्संस्थं नन्दिनीनलिनीमैत्रोमा नाममन्त्रेणाऽऽवाह्य तदुत्तरस्थमुशलगर्भायां पशुवर्धिनीं नाममन्त्रेणाऽऽवाह्य तदुत्तरस्थच्छुरिकाशस्त्रगर्भायां भगवतीं नाम्नैवाऽऽवाहयेत् ।
ततो मातृकावंशपात्रस्योत्तरतः स्थापिते सूक्ष्ममृन्मयकलशद्वय एकस्मिन्वा यथाचारं तण्डुलपूर्णे हरिद्राखण्डलड्डुकपूगीफलयुते न्युब्जशरावपिहिते श्वेतचूर्णरञ्जिते सूत्रवेष्टिते गणानां त्वेति मन्त्रेणाविघ्नगणपतिमावाह्य नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनाद्याचमनीयान्तानुपचारान्समर्प्य स्वसमीपे ताम्रपात्रं निधाय तत्र ताः शाखाः संस्थाप्य भार्यया नीराजनसुगन्धितैलाभ्यङ्गयवा