पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
१९७
संस्काररत्नमाला ।
( अधिकारसिद्ध्यर्थे वटूपनेतृकर्तृकप्रायश्चित्तम् )
 

उपनयनप्रयोगः ।

 अथोपनयनप्रयोगः । उपनयनं चिकीर्षुराचार्यः कार्पासमुक्तविधिना निर्मितमेकं यज्ञोपवीतं प्रादेशमात्रं समचतुरश्रमश्मानमहतं वस्त्रद्वयं क्षौमं कार्पासं वा कौपीनं तद्बन्धनार्थं क्षौमं सूत्रमुत्तरीयार्थं काषायं वस्त्रमजिनं वा त्रिवृतां मौञ्जीं मेखलां प्रवरसंख्यग्रन्थियुतामुक्तलक्षणं दण्डमप्रच्छिन्नाग्राः प्रादेशमात्रीः सप्त पालाशीः समिधोऽनियतसंख्यैर्दर्भैर्निर्मितमासनार्थं कूर्चं कांस्यव्यतिरिक्तं भिक्षापात्रं गां चोपकल्पयेत् । होमादिसामग्रीं च पित्राद्युपनेतरि कुमारेण भिक्षया वरदानार्थं गौरुपकल्पनीया ।

 कृतनित्यक्रिय आचार्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममोपनेतृत्वाधिकारसिद्ध्यर्थं कृच्छ्रत्रयात्मकं प्रायश्चित्तममुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्प्य तच्चरेत् ।

 एवं देशकालसंकीर्तनपूर्वकमुपनेयत्वाधिकारसिद्ध्यर्थं कृच्छ्रत्रयात्मकं प्रायश्चित्तं गोदानप्रत्याम्नायेनाहमाचरिष्य इति वटुना संकल्पं कारयित्वा तत्कारयेत् । तस्याशक्तावुपनेता वा कुर्यात् ।

 ततो मम गायत्र्युपदेशाधिकारार्थं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपमहं करिष्य इति संकल्प्य, अग्न आयू पीत्यादिषण्मन्त्राणां विश्वे देवा ऋषयः । आद्ययोरग्निः पवमानो देवता । मध्यमयोरग्निः पावकः । अन्त्ययोरग्निः शुचिर्गायत्री छन्दः । जपे विनियोगः। 'ॐ अग्न आयू षि० प्यर्चयः' इत्यग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृज्जपित्वा, गायत्र्या विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः । जपे विनियोगः । 'ॐ तत्सवितुर्वरेण्यं० दयात्' इति सकृज्जपित्वा, ऋष्यादिस्मरणपूर्वकं संकल्पितपक्षानुसारेण द्वादशसहस्रं द्वादशाधिकसहस्रं वा यथाकालं गायत्रीजपं कुर्यात् । अथवाऽग्निपवित्रसंज्ञकान्षण्मन्त्रान्गायत्रीं च सकृज्जपित्वोक्तसंख्यं गायत्रीजपं संकल्पपूर्वकं कुर्यात् । अथवा गायत्र्याः सकृज्जपो न कार्यः ।

 तत आचार्यो ज्योतिर्विदादिभ्योऽवधारितादुपयनदिनात्पूर्वेद्युस्तद्दिदने वा सर्वं नित्यकर्म विधाय माङ्गलिकं स्नानं माङ्गलिकं वेषं च कृत्वा सोत्तरच्छदे रङ्गवल्लिकायुक्ते पीठे प्राङ्मुख उपविश्य स्वदक्षिणतः कृतमाङ्गलिकस्नानां कृतमाङ्गलिकवेषां भार्यां तद्दक्षिणतः कृतमाङ्गलिकस्नानं कृतमाङ्गलिकवेषं संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्य कुमारस्य द्विजत्वसि