र्थान्नोपस्थितेः सूत्रोक्तेषु काण्डव्रतादिषु शास्त्रान्तरप्रोक्तेषु कर्णवेधादिकर्मसु च सत्त्वेनातिप्रसङ्गापत्तेः । न चेष्टापत्तिः, तथाऽऽचाराभावात् । यद्येवं, युग्मान्ब्राह्मणानित्यत्रापि कण्ठरवोक्ताया अत्रोपस्थितेः सत्त्वात्त्रिवृदन्नहोमः प्राप्नोति । नैष दोषः । यद्येवमिष्टं स्यात्तत्रैवेदं विधायातिदिशेत् । तस्मात्प्रथमोक्तान्नोपस्थितिव्यतिरिक्तस्थल एवायं होम इति सिद्धं भवति । अमुष्मै स्वाहेति यथा--देवतमादिष्टदेवते । आदिष्टदेवतेऽन्न उपस्थिते त्वमुष्मै स्वाहेति यथादेवतं होमः कार्य इत्यर्थः । आदिष्टदेवतेऽन्ने स्थालीपाक उपस्थिते कैश्चिदाचार्यैर्याज्यानुवाक्याभ्यां होमो विहितः स मा भूदित्येतदर्थममुष्मै स्वाहेति वचनम् । यथादेवतमिति वचनं यस्मिन्कर्मणि मन्त्रे यथा यथा छान्दसो धर्मो देवताशब्दे दृष्टो भवेत्तथैव नाममन्त्रेऽपि स्यादित्येवमर्थम् । दृष्टश्च क्षेत्रस्य पतिनेत्यस्मिन्मन्त्रे 'षष्ठीयुक्तश्छन्दसि वा' इत्यनेन घिसंज्ञारूपश्छन्दसि विकल्पेन विहितो धर्मस्तद्धर्मेणैव नाममन्त्रेण होमः । यथा क्षेत्रस्य पतये स्वाहेति घिसंज्ञाभावे क्षेत्रस्य पत्ये स्वाहेति । आदिष्टदेवत इति वचनमादिष्टदेवतान्नहोमीयमन्त्र एवैतन्नाऽऽज्यहोमीयनाममन्त्रे । तेन वेदोपाकरणादौ सदसस्पतये स्वाहेत्येवमेव मन्त्रः, न तु सदसस्पत्ये स्वाहेति । वास्तुबलिविधानात्पूर्वं परिभाषाकरणादेवं ज्ञायते पूर्वं स्विष्टकृद्धोमानन्तरं कर्मशेषं समाप्यैव वास्तुबलिरिति । वास्तुबलेरनावश्यकत्वद्योतनार्थं वा मध्ये परिभाषाकरणम् । अथवोत्तरत्र यथापुरस्तादित्येतस्य मध्यमणिन्यायेन ब्राह्मणानन्नेन परिविष्येत्यत्राप्यन्वयः । तेन सर्वत्रापि वास्तुबलिनैयत्यं सिध्यत्याचारश्चानुगृहीतो भवति । मध्ये परिभाषाकरणं तु वास्तुबलेरेवाव्यवहितत्वात्सर्वत्रातिदेशः स्याद्धोमस्य नैव स्याद्व्यवहितत्वात्तन्मा भूदित्येतदर्थम् । एतेषामिति वचनं बलिकरणे तान्येव द्रव्याणीति । एवकारो हविष्यव्यञ्जनस्यापि व्यावृत्त्यर्थः । समवदायेतिवचनात्पुनः पृथक्पृथग्गृहीत्वाऽवखण्ड्य मिश्रयित्वा तेन प्रागग्रेषु दर्भेषु बलिं करोति । प्रागग्रवचनमुदगग्रताव्यावृत्त्यर्थम् । नात्र सर्पिर्मिश्रणमवचनात् । बलिं करोतीतिवचनात्प्रथममवोक्ष्य बलिं तत्र न्युप्य तं परिषिञ्चति । त्रिवृता त्रिप्रकारेणान्नेन सव्यञ्जनेन ब्राह्मणान्परिविष्य संभोज्य तैः पुण्याहादीनि वाचयित्वा त्र्यहव्रतं चरतीत्यर्थः । अन्नेनेत्येतावतैव सिद्धे त्रिवृद्ग्रहणं युग्मान्ब्राह्मणानन्नेन परिविष्येत्यत्राप्योदनापूपसक्त्वात्मकत्रिवृदन्नसंप्रत्ययार्थम् ।
पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२००
दिखावट