एतद्गौणकालातिक्रमप्रायश्चित्तमाह स एव--
"तमतिनीय चतुर्गृहीतमाज्यं जुहुयाद्यदि सायं |
यत्तु माविलगृह्यम्--
"अथ यदि गृह्येऽग्नौ सायंप्रातर्होमयोर्हव्यं होतारं नाधिगच्छेत्कथं कुर्या[१]- |
यत्तु बौधायनवचनम्--
"आसायं कर्मणः प्रातराप्रातः सायं कर्मण आहुतिर्नातिपद्येत पार्वणं पार्व- |
यच्च निदानसूत्रम्--
"सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः सायमाहुतेः पूर्णः पक्षो दर्शस्य |
तद्राष्ट्रभ्रंशादिमहापत्तिविषयम् ।
प्रथमौपासनहोमे विशेषमाह शौनकः--
"यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । |
सुदर्शनभाष्ये तु यदि रात्रौ नवनाडिकामध्येऽग्न्युत्पत्तिस्तदा तदैव होमारम्भः । तदुत्तरं चेत्परदिने सायमारम्भ इत्युक्तम् ।
अथ होमद्रव्याणि ।
तत्र व्रीहयो यवा वा मुख्याः । "नित्य सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनते आहुती जुहोति" इति गृह्योक्तत्वात् ।
|चन्द्रिकायां स्मृत्यन्तरे--
"हविस्तु त्रिविधं प्रोक्तं कृतं चैव कृताकृतम् । |
अकृतं प्रक्षाल्य होतव्यम् । तथा च च्छान्दोग्यगृह्यम्-- ' अ[२]
कृतं चेत्प्रक्षाल्य जुहुयात्' इति ।