अथौपासनहोमः ।
तत्रेदं गृह्यम्-- "नित्य सायं प्रातर्व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोत्यग्नये स्वाहा प्रजापतये स्वाहेति सौरीं पूर्वां प्रातरेके समामनन्ति" इति ।
नित्यं सदा प्रत्यहं सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनैव वक्ष्यमाणे आहुती जुहोति । के ते । अग्नये स्वाहा प्रजापतये स्वाहेति । प्रातर्होमे सूर्यदेवत्यां सूर्याय स्वाहेत्येवंरूपां पूर्वामग्नये स्वाहेत्याहुतिस्थान एक आचार्या वदन्तीति । नित्यग्रहणमत ऊर्ध्वं पर्वशब्दयोरननुवृत्त्यर्थं तेन गृहप्रवेशनीयात्प्रागपि होमः प्रात्यहिकत्वरूपनित्यता च सिध्यति । अन्यथा गृहप्रवेशनीयोत्तरमुपादानान्नियमेन गृहप्रवेशनीयोत्तरभावित्वं पर्वस्वेव क्रिया च स्यात् । अथवा नित्यग्रहणं यावज्जीविकत्वार्थम्, अग्निहोत्रदर्शनात्सायंप्रातर्होमयोर्जीर्णस्य वा विरमणमित्येतदपि स्यात्तन्मा भूदिति । एतेनेदमपि ज्ञायतेऽग्निहोत्रकालोऽस्यापि कालः । अग्निहोत्रद्रव्यसंस्कारवद्द्रव्यसंस्कारः । सायमारम्भो न प्रातः । उद्धरणकालश्चास्य प्रादुष्करणकाल इति ।
उक्तं च बह्वृचैः--
"तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ" इति । |
अस्मिन्पक्षेऽत ऊर्ध्वमित्यधिकारात्प्राग्गृहप्रवेशनीयान्नास्ति होमः । य एव विवाहापरिसमाप्ततारूपो हेतुः स्थालीपाकाभावे सायंप्रातर्होमाभावेऽपि स एवेति । एतेन ज्ञायते गृहप्रवेशनीयान्तो विवाहः संगमार्थं चतुर्थीहोम इति । हस्तग्रहणं दर्वीनिवृत्त्यर्थम् । एते इतिवचनमाहुत्योर्नियमार्थं तेन द्रव्यस्यानियमादग्निहोत्रद्रव्याणां दशानामेकं स्यात् ।
तदुक्तं बह्वृचैः--"हौ[१]म्यं तु मांसवर्जं का[२]मं तु व्रीहियवतिलैः" इति ।
योग्यतयैवाऽऽहुतिसंप्रत्यये सिद्ध आहुतिवचनं नियमार्थम्, आहुती एव केवले स्यातां नेतरत्तन्त्रमिति । अस्मिन्कल्पे परिस्तरणपरिषेकयोरपि निवृत्तिः । हस्ताग्रेणापि कदाचिद्धोमः स्यात्स मा भूत्, किंतु जुहूवद्धस्तोत्तरपार्श्वेनैव होमो नियत इतिज्ञापनार्थं चेति ।