[ग्रहमखप्रयोगः]
१६१
संस्काररत्नमाला ।
( पुराणोक्तयजमानाभिषेकमन्त्राः)
ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥
|
[१]इत्यग्निपुराणोक्तैर्मन्त्रैः,
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसंभूतां पीडां दहतु ते रविः ॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां दहतु ते विधुः ॥
भूमिपुत्रो महातेजा जगतां भयकृत्सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु ते कुजः ॥
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान्पीडां दहतु ते बुधः ॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसंपूर्णः पीडां दहतु ते गुरुः ॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु ते भृगुः ॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु ते शनिः ॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां दहतु ते तमः ॥
अनेकरूपव[२]र्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतः पीडां दहतु ते शिखी ॥
|
इति मन्त्रैर्देवस्य त्वेत्यादिभिर्मन्त्रैश्चाभिषिञ्चेत् । [३]ततः कलशोदकेनान्येन च जलेन तैलाभ्यङ्गसर्वौपध्यनुलेपनपूर्वकं सुस्नातौ दंपती[४] अभिषेकवासांसि परित्यज्याहतवासांसि परिधाय श्वेतचन्दनपुष्पाण्यलंकारांश्च धृत्वाऽग्नेः पश्चादुपविशतो दक्षिणतः पत्नी[५] । त्यक्तवासांस्याचार्यस्य ।
- ↑ घ. ड. इत्येतैः ।
- ↑ क. वर्णश्च ।
- ↑ क. ख. ग. ततोऽभिषेकानन्तरं क ।
- ↑ घ. ङ.
ती अहतवासांसि परिधायाभिषेकवासांस्याचार्याय दत्त्वा श्वे ।
- ↑ घ. ड. त्नी । त ।