मा भूत्किंतु जुहूबद्धस्तोत्तरपार्श्वेनैव होम इतिज्ञापनार्थं च । ) वैश्वदेवे तूभयतः परिषेचनमिति प्राप्तस्य परिषेकस्य पुनर्वचनबलाद्यथोपदेशं कुरुत इति वचनबलाच्चेतरतन्त्रनिवृत्तिः । द्वितीयकल्पे तत्र तत्र व्याहृतिहोमविधानं वारुण्याद्यनुक्रमणं च परिसंख्यार्थम्, तेनेतरत्र प्रसाधनीदेवीहोमान्त एव विधिर्भवति न सर्वः । आग्नेयस्थालीपाके तूद्वास्येतिल्यप्प्रत्ययेन होमाव्यवधानस्योक्तेरिध्माभ्याधानादि प्रसाधनीदेवीहोमान्तं तन्त्रं निवर्तते । न च श्रपणात्पूर्वमेवेध्माभ्याधानादि प्रसाधनीदेवीहोमान्तमस्त्विति वाच्यम् । तादृशानुष्ठानस्य शास्त्रान्तरविरुद्धत्वेनास्वीकारात् । न च प्रणीताप्रणयनस्याऽऽत्मन्यग्निग्रहणस्य ब्रह्मणश्च निवृत्तिः । "सर्वदर्विहोमाणामेष कल्पः" इत्यनेनेध्माभ्याधानपूर्वतनतन्त्रप्रवर्तने बाधकाभावात् ।
अथवा--
"आपूर्विकेषु यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ |
इति बौधायनवचनसिद्धमापूर्विकत्वमत्र । तेन प्रणीताप्रणयनादीनामपि निवृत्तिः । आपूर्विकेष्वप्राप्तत्वात्स्विष्टकृद्विधानं सौविष्टकृतीं जुहोतीत्येतावदुच्यमाने यदस्येत्यनेन होमः स्यात्स मा भूदित्येतदर्थमग्नये स्विष्टकृते जुहोतीत्येवं वचनम् । आघारतन्त्राभावादेव वारुण्यादिनिवृत्तिः । पूर्वपरिषेकसंबन्धादेवोत्तरपरिषेकप्राप्तिः । परिस्तरणविसर्गस्त्वार्थिकः । अथवैवं सूत्रार्थः । जुहोतिचोदितानि कर्माणि दर्विहोमास्तेषु सर्वेष्वेष यथायोग्यं कल्पो विधिर्भवतीति । सर्वग्रहणं त्रिप्रकारा दर्विहोमा आघारवन्त आपूर्विका आग्निहोत्रिकाश्च तेषु सर्वेष्वनेनातिदेशः स्यादित्येतदर्थम् । यत्राऽऽघारवान्दर्विहोमस्तत्र सर्व एव योग्यो विधिः । यत्राऽऽपूर्विको दर्विहोमस्तत्र यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ चेत्येतेषामेव योग्यत्वादेतावानेव विधिः ।
नन्वापूर्विकशब्दबलात्केवलं यावदुक्तो होमोऽन्यानि वैशेषिकाणि कर्माणि चेत्येतावदेवानुष्ठेयं नान्यान्यङ्गान्यत्रानुष्ठेयानीति चेत् । सत्यम् । नासंस्कृतेन द्रव्येण जुहुयादिति शास्त्रान्तरेऽसंस्कृतद्रव्यहोमनिषेधेन द्रव्यसंस्कारस्याऽऽवश्यकत्वात् । अधिकरणसंबन्धित्वात्परिस्तरणपरिषेकावपि । न चैवमिध्माभ्याधानमप्यग्निसंबन्धित्वात्स्यादिति वाच्यं, बौधायनेनानुक्तत्वेन तदभावस्यैव सिद्धेः । आधाराभावादपीध्माभ्याधानस्याभावः । इध्माभ्याधानस्याऽऽघारसंबन्धित्वेनैकसंबन्धिनिवृत्तावपरसंबन्धिनोऽपि निवृत्ते