निर्विवादत्वात् । एतयोः परस्परसंबन्धित्वे ज्ञापकं त्वथ दर्व्या जुहोतीत्यस्मिन्सूत्रे प्रदर्शितम् ।
सर्वं चैतदाह बौधायनः--
"आपूर्विकेषु यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ |
द्रव्यग्रहणं होमसाधनोपलक्षणम् ।
"नासंस्कृतेन पात्रेण जुहुयात्" |
इति शास्त्रान्तरसंवादात् । एतावन्त्येवाङ्गान्याग्निहोत्रिकेपु संस्कृताज्येन चतुर्गृहीत्वा सर्वान्मन्त्राननुद्रुत्य प्रथमाहुतिः । अग्नये स्विष्टकृते स्वाहेति द्वितीयाहुतिः । ततोऽग्निहोत्रवत्त्रिः प्राशनं स्रुचो दर्भैः प्रक्षालनं यथोक्तानि वैशेषिकाणि कर्माणि ।
तथा च बौधायनः--
"आग्निहोत्रिकेषु स्रुक्स्रुवौ प्रयुज्याऽऽज्यं संस्कृत्य चतुर्गृहीत्वा सर्वान्मन्त्राननुन्द्रुत्य प्रथमामाहुतिं जुहोत्यग्नये स्विष्टकृते स्वाहेति द्वितीयामग्निहोत्रवत्त्रिः प्राश्य स्रुचं दर्भैः प्रक्षालयति यथोक्तानि वैशेषिकाणि कर्माणि ततः करोति" इति ।
दर्विहोमाणामित्यत्र बहुवचनं नानाहविष्कत्वाद्युज्यते । एतच्चोभयकल्पेऽपि समानम् । सर्वत्रैष कल्प इति वक्तव्ये दर्विहोमवचनं जुहोतिचोदितेष्वेव कर्मस्वेष कल्पो यथा स्यात्, जपत्यादिचोदितेषु मा भूदित्येतदर्थम् । एतदप्युभयकल्पे समानम् । यत्रोभयानुवादोऽन्यतरानुवादो वा तत्राऽऽघारवदेव तन्त्रम् । अन्यत्र त्रयाणां द्वयोर्वा विकल्पः कुत्रचिन्नियमो वा । तत्र त्रिवृदन्नहोमे बहिःसंस्कृतान्नप्रापकोपस्थितवचन[१]बलादापूर्विकत्वमेव ।
मासिकश्राद्धे बहिःसंस्कृतान्नहोमेऽप्याघारवत्तन्त्रदर्शनादाघारवत्तन्त्रमपि पक्षे ।
स्थालीपाके तु व्याख्यानद्वयेऽप्यापूर्विकत्वमेव । भाष्यकृता तु पक्ष आघारवत्तन्त्रमप्यत्रोक्तम् । यत्र केवले चरुहोमे स्थालीपाकशब्देन विधानं नास्ति किंतु चरुशब्देन पक्वाज्जुहोतीत्येवं वा तत्राऽऽपूर्विकतन्त्रमेव । यत्र त्वाज्यादिहोमसहितश्चरुहोमस्तत्राऽऽघारवत्तन्त्रेणैव चरुहोमः । एतद्विषये ज्ञापकमथैनामाग्नेयेन स्थालीपाकेन याजयतीत्यस्मिन्सूत्रे प्रदर्शयिष्यते । एकाहुतिकेषूद्द्रवणादिनिमित्तकेषु होमेषु त्रयाणां द्वयोर्वैच्छिको विकल्पः । द्वित्र्याद्याहुतिकेषु होमेषु सर्वाननुद्रुत्य प्रथमामाहुतिं जुहोतीत्येतस्य विधेः स्वसूत्रविरुद्धत्वान्नाऽऽग्निहोत्रिकविधिः ।
- ↑ क. नलिङ्गादा ।