न्तात्स्थापितैरलंकृतामित्यर्थः । विचित्रेण वर्णेनाङ्किताश्चिह्निताः कुम्भास्तैरलंकृतामित्यर्थः । शृङ्गारसंपादकानि मालतीप्रभृतिसुगन्धिपुष्पाणि तेषां निकराः समूहास्तैः शोभिताम् । वर्णकैर्नानावर्णैः शोभिताम् । पुण्यैर्विप्राशीर्वचनैरित्यनेन दंपत्योर्वेद्यारोहणकाले विप्रैराशिषो देया इति द्योत्यते । त्रिभिर्दीपैर्वेद्याः पुरोभागे स्थापितैर्मनोरमाम् । वादित्रगीतनृत्याद्यैर्हृदयानन्द[१]दायिनीमित्यनेन दंपत्योर्वेद्यारोहणकाले वादित्रगीतनृत्यादिकं कारणीयमिति सूच्यते । साग्निवेदिकामित्यनेन दंपत्योर्वेद्यारोहणात्पूर्वं होमोपयोगिनामग्न्यादीनामुपकल्पनं वेद्यां कार्यमिति सूच्यते । एतच्च साग्नीत्यस्य वेदिकाया विशेषणत्वपक्षे । मिथुनस्य साग्नीति विशेषणं भिन्नं पदं वेदिकापदात् । एतस्मिन्पक्ष आरोहणसमयेऽग्नेर्वेदिकायामुपकल्पनं ज्ञेयम् । एवंविधामुक्तविशेषणविशिष्टां वेदिं मिथुनमारुरुक्षेत् । वध्वा सहैव वर आरोहणं कुर्यादित्यर्थः ।
केशवार्कोऽपि--
"वेदिकां विरचयेद्यथा तथा स्यादियं प्रविशतः प्रदक्षिणा । |
यवोप्तिरङ्कुरारोपणाख्यं कर्म । जनाश्रयो मण्डपः । 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः ।
मण्डपादिनिर्माणे दिनान्याह नारदः--
"नवत्रिषष्ठो नववारकः शुभो न वर्णकेनापि विवाहमण्डपः" इति । |
नवमे तृतीये षष्ठे च दिवसे नववारको न शुभः । नववारकोऽङ्कुरारोपणम् । वर्णकेनानुकल्पतया विवाहमण्डपनिर्माणमपि नवमादिदिनेषु न शुभम् । मुख्यकल्पेन तन्निर्माणे त्वेतेषु दिनेषु सुतरां न कार्यमित्याशयः । विवाहार्थो मण्डपो वर्णकेनैव क्रियमाणो न शुभोऽन्यार्थस्तु वर्णकेनैव क्रियमाणोऽपि शुभ इति केचित् ।
दैवज्ञमनोहरः--
"चित्रा विशाखा शततारकाऽश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् । |
शिवभमार्द्रानक्षत्रं तदारभ्याऽऽश्लेषान्तं नक्षत्रचतुष्टयं हित्वेत्यर्थः ।
- ↑ एतद्व्याख्यानानुरोधेन पूर्वं श्लोकेऽपि नन्दिनीं शुभामित्यत्र नन्ददायिनीमित्येव पाठो द्रष्टव्यः ।