पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२६
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( मण्डपादि )
 

 हेमाद्रौ व्यासः--

"कण्डनदलनयवारकमण्डपमृद्वेदिवर्णकान्यखिलम् ।
तत्संबन्धि गतागतमृक्षे वैवाहिके कुर्यात्" इति ।

 यवारकं भाषया 'चिकसा' इति ।

 ज्योतिर्निबन्धे नारदः--

"कर्तव्यं म
[१]ङ्गलेष्वादौ मङ्गलायाङ्कुरार्पणम् ।
नवमे सप्तमे वाऽपि पञ्चमे दिवसेऽपि वा ।
तृतीये बीजनक्षत्रे शुभवारे शुभोदये ।
सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः ।
सह वादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् ।
तत्र मृत्सिकताः श्लक्ष्णा गृहीत्वा पुनरागतः ।

 मृत्सिकता मृत्पांसवः ।

मृन्मयेष्वथ पात्रेषु वैणवेष्वथ वा क्षिपेत् ।
अनेकबीजसंयुक्तां तोयपुष्पोपशोभिताम्" इति ।

 ज्योतिर्निबन्धे विशेषः--

"यस्याङ्गं यददोऽङ्गिनो गदितभे कुर्यादिहेन्दोर्बलं नाऽऽलोक्यं
तु विवाहतस्त्र्य३रि६नवा९ह्नि प्राङ्न कुर्यादिदम्" इति ।

 अस्यार्थः--यस्य कर्मणो यदङ्गम्, अद इदमङ्गिनो मुख्यस्य गदितभ उक्तनक्षत्रे कुर्यात् । इहास्मिन्नङ्गभूते कर्मणि, इन्दोश्चन्द्रस्य बलं नाऽऽलोक्यं न विचारणीयम् । तत्र विवाहे विशेषः । विवाहतो विवाहदिनात्प्राक्त्र्यरिनवाह्नि तृतीयषष्ठनवमेऽह्नि, इदमङ्गं विवाहाङ्गं न कुर्यात् ।

 तत्र विवाहाङ्गं नवविधम् । तदुक्तं ज्योतिर्निबन्धे--

"दलनं कण्डनं चैव व्यञ्जनं मोदकानि च ।
यवारं मण्डपो वेदिः कुङ्कुमं वर्णकं तथा" इति ।
"कार्यं विवाहाङ्गमिदं विवाहभैर्युञ्जन्ति नात्रेन्दुबलाबलं बुधाः ।
षष्ठे तृतीये नवमेऽह्नि लग्नतः पूर्वं न वर्णो न यवारमण्डपौ" इति ।

 शार्ङ्गधरीये--

"दलनकण्डनमण्डनवेदिकागृहसंमार्जनवारकमण्डपाः ।
करतलग्रहमध्यगतागतं तदखिलं विदधीत विवाहभे ।



  1. ङ. मण्डपेष्वा ।