स्मृतिचन्द्रिकायाम्--
"कृते वाङ्निश्चये पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः । |
अन्यत्रापि--
"वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । |
अत्र यद्यपि कश्चिदिति मृतिर्भवति कस्यचिदित्यविशे[१]षेणोक्तं तथाऽपि पितामह्यादीनामिव मातामह्यादीनामपि मरणस्य प्रतिकूलदोषनिमित्तत्वेन क्वचिदकीर्तनात्, अविवाहिताया भगिन्या इव विवाहिताया मरणस्य तथात्वानुक्तेः, मेधातिथिवाक्ये स्वगोत्रिणामिति चन्द्रिकावाक्ये मर्त्यस्य गोत्रिण इति च कीर्तनात्, वध्वा वरस्य वा सगोत्रसपिण्डेषु त्रिपुरुषान्तर्गते मर्त्ये मृते प्रतिकूलदोष इति मन्तव्यम् । स्त्री वरस्य द्वितीयादिविवाहसमये पूर्वोढा । सुतस्तस्यां पूर्वोत्पन्नः । एतत्पौत्रोपलक्षणम् । एवं पितृव्यग्रहणं तत्पुत्रस्य[२] । एवं च वरमारभ्य जनकत्रिपुरुषी[३] जन्या त्रिपुरुषी कूटस्थमारभ्य संतानभेदे च त्रिपुरुष्यत्र बोद्धव्या । वधूवरयोः समानगृहे तन्मरणे कंचित्कालं प्रतीक्ष्यैव विवाह इति तदा न कुर्युरित्यादिशब्दैर्बोध्यते । तयोस्तत्प्रतिकूलं स्यादिति कालप्रतीक्षाशान्तिभ्यामसमाधेयो दोषो द्वयोर्युगपन्मरणज इत्याशयः । अत एवोक्तं नान्येषां तु कदाचनेति । अन्येषां सपिण्डानां तयोरप्येकैकमरणजस्तु समाधेय इत्याशयः ।
वृद्धवसिष्ठवाक्ये चतुर्णां मरणस्य महाविघ्नप्रदत्वकथनं तत्र प्रतीक्षासहिता केवला वा विनायकशान्तिरितिकथनार्थम् । अत एव तद्विधिवाक्यशेषे शान्त्यकरणे पदे पद इति विघ्नस्य महत्त्वं प्रदर्शितम् । एभिरेव विपन्नैरिति कालप्रतीक्षासहितायाः श्रीपूजनादिशान्तेर्निमित्तमेतन्मरणमेवेत्याशयः । अत एव माण्डव्यवाक्ये नैव कर्तव्यो निमित्तानन्तरमिति व्याख्येयम् । एवं वृद्धवसिष्ठवाक्यमपि ।
प्रतीक्षा च सामान्यतः संवत्सरमृतुत्रयं मासमात्रं वेति पक्षत्रयं मेधातिथिवाक्यसहितस्मृत्यन्तरवाक्याद्बोद्धव्यम् । रत्नावलीवाक्य आशौचशब्देन प्रतिकूलकृतं विवाहानधिकारमात्रं प्रतीक्षातात्पर्यकं बोध्यम् ।
महागुरुव्यतिरिक्तमरणकृतप्रतिकूलाभावे प्रथमाब्देऽपि सपिण्डीकरणमा