गम्यते । द्वयोरपी[१]त्यन्ये । अविशेषादित्याशयः[२] । एतन्मते पितुरब्दमित्येव पाठः । पित्रोरब्दमितिपाठे मुख्यमातुरब्दं सापत्नमातुरब्दार्धम् । पितुरब्दमितिपाठ उभयोरप्यब्दार्धमेवेति भेदः।
ज्योतिष्प्रकाशे--
"प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा । |
स्मृत्यन्तरे--
"प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् । |
तयोर्निश्चितघटितयोर्वधूवरयोः । वध्वा वरालाभे वरस्य वध्वलाभे संकटे सति नान्यां वधूमन्यं वरं वा प्रेक्षेदि(ते)ति तात्पर्यार्थः ।
ज्योतिःसागरे--
"दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये । |
अन्यत्रापि--
"दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । |
अस्मिन्वाक्ये सामान्यतः शुभं कर्मेतिश्रवणादुपनयनस्यापि विनायकशान्तिपूर्वकमेवानुष्ठानमिति केचित् । अन्ये तु शुभकर्मशब्दो विवाह एवोपसंह्रियते तेन शान्तिपूर्वको विवाह एव भवति । उपनयनं तु नैव भवतीत्याहुः । उपनयनं तु शान्तिमन्तरेणापि भवतीति परे ।
वसिष्ठः--
"प्रतिकूले तु संप्राप्ते विवाहं नैव कारयेत् । |