एतेषां लेपसंबन्धे परित्याग एव । परित्यागव्यतिरिक्ते सर्वत्र पवमानानुवाकप्रोक्षणस्य समुच्चयः । सर्पिरादीनां क्षुद्रकेशकीटकादिभिः संसर्गे तमुद्धृत्य पर्यग्निकरणं वस्त्रादिभिर्गालनं पवित्राभ्यां तूष्णीमुत्पवनं च कार्यम् । एवं काकादिभिरवघ्रातेष्वपि । विण्मूत्राद्युपहतौ तु परित्याग एव । एतन्मूलभूतानि वचनानि तु हेमाद्रिविज्ञानेश्वरमदनपारिजातादिषु द्रष्टव्यानि ।
इति पात्रद्रव्यशुद्धिप्रकारः ।
द्रव्यप्रतिनिधिनिरूपणम् ।
अथ संक्षेपेण प्रतिनिधिनिरूपणम् । तत्र व्रीहयो यवा वा मुख्यास्तदभावे नीवारगोधूमौ यथायथं तदभावे वेणुयवास्तदभावे माषचणककोद्रवादिनिषिद्धद्रव्यातिरिक्तं द्रव्यम् । गव्यमाज्यं मुख्यं तदभावे माहिषं तदभाव आजं तदभावे तैलं तदभावे जर्तिलातसीकुसुम्भसर्षपमधूकबीजनारिकेलस्नेहादीनि पूर्वपूर्वालाभे ग्राह्याणि । एतेषामप्यलाभे यवव्रीहिश्यामाकान्यतमोद्भवं पिष्टं जलेनाऽऽलोड्याऽऽज्यकार्ये नियोजयेत् । एवमञ्जनेऽपि । बर्हिःकार्ये दर्भा मुख्यास्तदभावे काशास्तदभावे शरसुगन्धितृणाश्वबालमुञ्जदूर्वायवश्यामाकतृणेक्षुपत्रक्षीरद्रूमपत्राणि पूर्वपूर्वालाभे ग्राह्याणि । समित्कार्ये पलाशो मुख्यः । इध्मकार्ये खदिरोऽपि । तदभावेऽश्वत्थोदुम्बरशम्यर्कापामार्गादयः । अपि वा कपित्थराजवृक्षकदम्बनिम्बकरञ्जशाल्मलितिलकञ्चनारश्लेष्मातकविभीतकशाकद्रुमादीन्निषिद्धान्वर्जयित्वाऽवशिष्टाञ्शुचीन्वनस्पतीनुपयुञ्ज्यात् । गोपयो मुख्यं, तदभावे माहिषं, तदभाव आजं, तदभावे गवादीनां दधि, तदभावे यवव्रीहिश्यामाकान्यतमोद्भवपिष्टमिश्रितं जलम् । केषांचिदाचार्याणां मते गोपयोभावे दधि, तदभावे माहिषं पयः, तदभाव आज, तदभावे महिष्यादीनां दधि, तदभावे यवव्रीहिश्यामाकान्यतमोद्भवपिष्टमिश्रितं जलमिति क्रमः । एवं दध्नोऽपि । पात्रेषूक्तवृक्षाभावे पूर्वोक्तान्कपित्थादीन्वर्जयित्वा पारयोग्ययज्ञियवृक्षमात्रं ग्राह्यम् ।
दक्षिणामानम् ।
दक्षिणासु वरेषु चोक्तद्रव्यालाभे विभवानुसारेण मूल्याध्यायोक्तमानेन द्रव्यं देयम् । तत्र मानं पञ्चधा । वराटकताम्ररौप्यकसुवर्णरजतभेदात् । तत्रैकस्या गोर्मूल्यं वराटकमानेन षष्ट्यधिकपञ्चविंशतिशती वराटकानां भवति । ताम्रमानेनैकस्या गोर्मूल्यं मधुमुद्राङ्कितढब्बूकस्य चतुश्चत्वारिंशदधिकशतगुञ्जात्मकत्वात्ताम्रपणस्य ।