पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
[द्रव्यशुद्धिविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

पात्राणां शुद्धिप्रकारः ।

 अथ संक्षेपेण पात्राणां द्रव्याणां च शुद्धिप्रकारः । तत्र लेपरहितानां दारुमयाणामश्ममयानां वैणवानां च लेपं विनोच्छिष्टपुरुषादिस्पृष्टानां जलेन प्रक्षालनाच्छुद्धिः । सलेपानामेतेषां सलेपोच्छिष्टादिपुरुषस्पृष्टानां तक्षणात्प्रक्षालनाच्च शुद्धिः । सलेपानामेतेषां लेपं विनोच्छिष्टपुरुषादिस्पृष्टानामुष्णोदकेन प्रक्षालनाच्छुद्धिः । शूर्पस्य तु तक्षणासंभवात्परित्याग एव । लेपसहितानां दारुमयाणामश्ममयानां च काकादिमुखावमृष्टानां तक्षणाच्छुद्धिः । लेपरहितानां तूष्णोदकेन प्रक्षालनात् । एवं मार्जारव्यतिरिक्तश्वापदमुखावमृष्टानामपि । चण्डालादिस्पर्शविण्मूत्राद्युपहत्योस्तु सर्वत्र परित्याग एव । सलेपानां सौवर्णराजतकांस्यमयताम्रमयाणां यथाक्रममुष्णोदकगोशकृद्भस्माम्लैः शुद्धिः । सलेपानां सौवर्णराजतव्यतिरिक्तानां पात्राणां काकादिमुखावमृष्टानां शूद्रसंस्पृष्टानां च तक्षणात्प्रक्षालनाच्च शुद्धिः। एवं शूद्रोपभुक्तानामलेपानामपि । सौवर्णराजतानां तु दाहादुष्णोदकेन प्रक्षालनाच्च शुद्धिः । एतेषां चण्डालादिस्पर्शे विण्मूत्राद्युपहतौ च पुनः करणम् । अथवा गोमूत्रे सप्तरात्रं संस्थापनाद्दाहादुष्णोदकेन प्रक्षालनाच्च शुद्धिः । नूतनानां मृन्मयानां विना लेपमुच्छिष्टपुरुषादिस्पृष्टानां जलेन प्रक्षालनम् ।आज्यलिप्तानामुच्छिष्टपुरुषादिस्पृष्टानां पुनर्दाहः । सलेपानामुच्छिष्टपुरुषादिस्पृष्टानां मूत्रपुरीषाद्युपहृतानां च परित्याग एव ।

द्रव्याणां शुद्धिप्रकारः ।

 कृष्णाजिनस्य लेपं विनोच्छिष्टस्पर्शे गोमयोदकेन प्रक्षालनम् । सलेपोच्छिष्टस्पर्शे गौरसर्षपपिष्टैर्गोमयेन मृदोष्णोदकेन च शुद्धिः । विण्मूत्राद्युपहतावप्येवम् । घनाया भूमेर्विण्मूत्राद्युपहतौ गोमयेनोपलेपनम् । ससुषिरायाः कर्षणम् । आर्द्राया मेध्यमृदा प्रच्छादनम् । अशुद्धायां भूमौ न्यस्तानां प्रक्षालनम् । पुरुषवाह्यानां काष्ठशिलेष्टकानां चण्डालादिस्पृष्टानां प्रक्षाल्यावशोषणम् । यज्ञाद्यर्थं शूद्रादिभिराहृतानां दर्भकाष्ठादीनां पवमानानुवाकेन प्रोक्षणाच्छुद्धिः । एकपुरुषाहारपरिमितानां व्रीहियवगोधूमादीनां विण्मूत्राद्युपहतौ परित्यागः । अधिकानां तु यावत उपहतिर्भवति तावत एवोत्सर्गं कृत्वाऽवशिष्टानां प्रोक्षणकण्डनक्षालनानि कार्याणि । फलीकृतानां तण्डुलानां पाणिभ्यां निर्मलीकरणप्रोक्षणप्रक्षालनानि । होमार्थस्य चर्वादेः केशकीटपतङ्गादिभिरुपघाते परित्याग एव । सर्पिषस्तैलस्य चोच्छिष्टस्पर्श उदके तत्पात्रं निधायोद्धृत्योपयोजयेत् । मधुपयोदध्यादीनां तस्मात्पात्रादन्यस्मिन्पात्र उद्धृत्योपयोगः कार्यः ।