रामः-न केवलं दण्डकैव, जनस्थानमपि ।
शम्बूकः बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्त चण्डश्वापदकुलाकान्तविकटगिरिगहराणि जनसानपर्यन्तदीरण्यानि दक्षिणा दिशमभिवर्तन्ते । तथाहि ।
निप्कूजस्तिमिताः कचित्वचिदपि प्रोचण्डसत्वखनाः
खेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्तामयः ।
सीमानः प्रदरोदरेषु विरलवल्पाम्भसो या स्वयं
तृप्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ १६ ॥
राम:-
पश्यामि च जनस्वानं भूतपूर्वखरालयम् ।
प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥
(सर्वतोऽवलोक्य ।) प्रिया रामा हि वैदेह्मासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् । (सास्त्रम् ।)
त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु ।
इतीबारमते हासौ खेहस्तस्याः स तादृशः ॥ १८ ॥
न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तरय किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ १९ ॥
भयः नास्ति कुतो भयं यस्येति विग्रहः॥ एतानीति रोमहर्षणानि रोमाञ्चजनकानि। निष्कृजेति । निर्गताः कूजाः कूजिताने येभ्य इति विग्रहः । कूजितशून्या इत्यर्थः । 'कूज अव्यक्त शब्दे' इत्यस्माद् भावे घञ्प्रत्ययः । सत्त्वानां जन्तूनाम् ।प्रदरोदराणि गुहामध्याः । प्रतिसूर्यकैः वककलासकैः ॥ १६॥ पश्यामीति । भूतपूर्वो यः खरालयः तथाविधमित्यर्थः । भूतपूर्वः खरालयः खरगृहं बस्मिन्निति वा । प्रत्यक्षानिव पुरोवर्त'मानानिय । अनुभवामि स्मृतिवैशयेन प्रत्यक्षीकरोमि ॥ १७ ॥ कान्ताराणि दुर्गमबमानि । भयानकं भयजनकम् । त्वयेति । मथुगन्धः एषु अस्तीति मधुगन्धीनि तेषु बनेषु इह कान्तारेषु आरमते प्रीति प्राप्तवत्येव । कुत इत्यत आह-लेहस्तस्याः स ताटश इति । 'हृदयं त्वेब जानाति प्रीतियोगं परस्परम्' इत्युक्तरीया परिच्छेदातीत इत्यर्थः ॥१८॥ नेति ! यस्य प्रियः प्रीतिमान् प्रीतिविषयो वा यः जनः किंचिदपि न कुर्वाणः सन् किंचित्कारलेशेनापि शून्यः सन् सौख्यैः खीयसुखैः करणैः दुःखान्यपोइति नाशयति । तत् दुःखनाशहेतुभूतो जनः । विधेयप्राधान्यान् ममुसकत्वम् । तस्य