जपेदिति शेषः ।
पवित्रत्यागे विशेष उक्तः स्मृत्यन्तरे--
"नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः । |
कुशाभावे स्मृत्यन्तरे--
"कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः । |
हारीतः--
"कुशाभावे तथा काशा दूर्वा व्रीहियवा अपि । |
अत्र व्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः । विस्तरस्त्वाचाररत्नमालायां वक्ष्यते ।
यज्ञियपात्रवृक्षाः, यज्ञियपात्रलक्षणानि च ।
पात्रवृक्षाः संग्रहे--
"पात्राणि दारवाणि स्युर्यथाशक्त्यनुरूपतः । |
पात्र इति शेषः ।
"खादिरेण स्रुवः कार्यः पालाशी तु जुहूर्भवेत् । |
गृह्यकर्मणि सर्वत्राऽऽज्यहोमे दर्व्येवाऽऽचार्योक्तेः । शास्त्रान्तरे दृष्टत्वात्खादिर्यपि दर्वी ग्राह्येति मातृदत्तः । अपिशब्दात्पालाशी । बौधायनगृह्ये--
"खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य" इति ।