पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कुशप्रतिनिधयः]
१९
संस्काररत्नमाला ।
( यज्ञियपात्रवृक्षाः )
 

  जपेदिति शेषः ।
 पवित्रत्यागे विशेष उक्तः स्मृत्यन्तरे--

"नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः ।
धृतं पवित्रं कर्मान्ते ग्रन्थिं मुक्त्वैव तत्त्यजेत्" इति ।

 कुशाभावे स्मृत्यन्तरे--

"कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः ।
काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचितम्" इति ।

 हारीतः--

"कुशाभावे तथा काशा दूर्वा व्रीहियवा अपि ।
गोधूमाश्चैव नीवाराः श्यामाकोशीरवल्वजाः ॥
मुञ्जा वाऽथ परिग्राह्याः सर्वकर्मसु निश्चितम्" इति ।

अत्र व्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः । विस्तरस्त्वाचाररत्नमालायां वक्ष्यते ।

यज्ञियपात्रवृक्षाः, यज्ञियपात्रलक्षणानि च ।

  पात्रवृक्षाः संग्रहे--

"पात्राणि दारवाणि स्युर्यथाशक्त्यनुरूपतः ।
पूर्णपात्रादयो ग्राह्याः शस्ता यज्ञद्रुमोद्भवाः ॥
प्रशस्ते पूर्णपात्रार्थे दारुकांस्यमये मखे" इति ।

 पात्र इति शेषः ।

"खादिरेण स्रुवः कार्यः पालाशी तु जुहूर्भवेत् ।
त्वक्प्रदेशे बिलं स्यातामन्यैर्वा यज्ञियैर्द्रुमैः ॥
तदलाभे पलाशस्य पर्णाभ्यां हूयते हविः ।
पलाशपर्णाभावे तु पर्णैर्वा पिप्पलोद्भवैः" इति ।

 गृह्यकर्मणि सर्वत्राऽऽज्यहोमे दर्व्येवाऽऽचार्योक्तेः । शास्त्रान्तरे दृष्टत्वात्खादिर्यपि दर्वी ग्राह्येति मातृदत्तः । अपिशब्दात्पालाशी ।   बौधायनगृह्ये--

 "खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य" इति ।