स्रुवे विशेषमाह स एव--
"पालाशेन स्रवेणेत्यात्रेयः खादिरेणेत्याङ्गिरसस्ताम्रायसेनेत्याथर्वणः |
दर्व्या आकृतिर्लोकप्रसिद्धा भाषया 'पळी' इत्युच्यते । तदलाभे स्रुगलाभे दर्व्यलाभे च स्रुवस्थानीयं पर्णमत्र मध्यमं ग्राह्यम् ।
"मध्यमेन पर्णेन जुहोति स्रुग्ध्येषा" इति श्रुतेः । |
आज्यस्थालीलक्षणं छन्दोगपरिशिष्टे--
"आज्यस्थाली प्रकर्तव्या तैजसद्रव्यसंभवा । |
आज्यस्थाली मृन्मयीति मातृदत्तवैजयन्तीकारौ । कांस्यमयीति केचित् । सा चार्थसिद्धपरिमाणा विशेषानुक्तेः । यथाकामं तु कारयेदित्यनन्तरोदाहृतच्छन्दोगपरिशिष्टवचनाच्च । मृन्मयीतिपक्षे हस्तघटितैव न कुलालचक्रनिर्मिता । अचक्रावर्तामित्यग्निहोत्रहोमप्रकरणे सूत्रकारेणोक्तत्वात् ।
"कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । |
इति कर्मप्रदीपवचनाच्च । चक्रेणाऽऽवर्तो भ्रमो यस्याः सा चक्रावर्ता न चक्रावर्ताऽचक्रावर्ता ताम् । इदमग्निहोत्रस्थालीविशेषणम् । आज्याहुतीनामतिबाहुल्येनैकाज्यस्थाल्यसंभवेऽनेका महत्य आज्यस्थाल्य उपयोक्तव्याः ।
प्रदर्शितं चास्त्याचार्येण--
"असंभवाद्वा यथाऽश्वमेधे पशुकर्मसु" इत्यनेन सूत्रेण । |
अन्यो निर्वापो वा कार्यः । आज्यस्थालीगताज्यस्य स्कन्दनेऽप्येषः । प्रायौगिकास्तु संस्कृते स्थालीगत आज्य एव लौकिकमाज्यमानीय तेन
- ↑ ख. ग. दभावेऽन्य ।