पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५-७० प्रक
189
अस्वामिविक्रयः स्वस्वामिसंबन्ध:

६८-७० प्रक. दत्तस्यानपाकर्म अस्वामिविक्रयः

स्वस्वामिसंबन्धः,


दत्तस्याप्रदानमृणादानेन व्याख्यातम् ।
दत्तमव्यवहार्यकत्रानुशये वर्तेत ।
 सर्वस्वं पुत्रदारं आत्मानं प्रदायानुशयिनः[१] प्रयच्छेत । धर्म- दानमसाधुषु कर्मसु चौपघातिकेषु वा अर्थदानम[२]नुपकारिषु अपकारिषु वा कामदानमनर्हेषु च यथा च[३] दाता प्रतिगृ. हीता च नोपहतौ स्याता तथानुशयं कुशलाः कल्पयेयुः ।
 दण्डभयादाक्रोशभयादर्थभ[४]याद्वा भयदानं प्रतिगृह्णतस्स्तेय- दण्डः प्रयच्छतश्च । दोषदानं परहिंसायां ।
 राज्ञामुपरि दर्पदानं च । तत्रोत्तमो दण्डः ।
 प्रतिभाव्यदण्डः शुल्कशेषमास्थिकं[५] सौरिकं कामदानं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् ।
 इति दत्तस्यानपाकर्म ।
 अस्वामिविक्रयस्तु-नष्टापहृतमासाद्य स्वामी धर्मस्थेन ग्राहयेत् । देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत् । धर्म स्थश्च स्वामिनमनुयुञ्जीत--" कुतस्ते लब्धम्" इति । स चेदा चारक्रमं दर्शयेत, न विक्रेतारं तस्य द्रव्यस्यातिसर्गेण मुच्येत । विक्रेता चेदृश्यते, मूल्यं स्तेयदण्डं च । स चेदपसारमधि- गच्छेदपसरेदापसारक्षयादिति[६] क्षये मूल्यं स्तेयदण्ड च दद्यात् । १शायिनः २ अर्थम् ३वा ४ क्ोशादनर्थ ५ माक्षिक ६ याज्ञवल्क्य

  1. शायिन:
  2. अर्थम
  3. वा.
  4. कोशादनर्थ
  5. माक्षिक.
  6. याज्ञवल्क्य,II-१६९.