पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
188
३ आधि. १५ अध्या.
धर्मस्थयम्

 क्रीत्वा पण्यमप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोषो पनिपाताविषह्येभ्यः ।
 समानश्चानुशयः विक्रेतुरनुशयेन । विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणासिद्धमुपावर्तनम् । शूद्राणां च प्रकर्म णाम् । वृत्तपाणिग्रहणयोरपि दोषमौपशायिकं दृष्ट्वा सिद्धमुपा वर्तनम् । न त्वेवाभिप्रजातयोः ।
 कन्यादोषौपशायिकमनाख्याय प्रयच्छतः कन्यां पण्णव तिर्दण्ड. शुल्कस्त्रीधनप्रतिदानं च ।
वरयितुर्वा वरदोषमनाख्याय विन्दतो द्विगुणः । शुल्कली धननाशश्च ।
 द्विपदचतुष्पदानां तु कुष्ठव्याधितानामशुचीनामुत्साहस्वा स्थ्यशुचीनामाख्याने द्वादशपणो दण्ड. ।
 आत्रिपक्षादिति चतुष्पदानामुपावर्तनम् ।
 आसंवत्सरादिति मनुष्याणाम् । तावता हि कालेन शक्यं शौचाशौचौ ज्ञातुमिति ।

दाता प्रतिगृहीता च स्यातां नोपहतौ यथा।
दाने क्रये वाऽनुशयं तथा कुर्युस्सभासदः ॥

इति धर्मस्थीये विक्रीतकीतानुशयः पञ्चदशोऽध्यायः

आदितो द्विसप्ततितमः