पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
236
1४ अधि.१. अध्या.
कण्टकशोधनम्

293।8  मातापित्रोर्भगिनीं मातुलानीमाचार्याणी[१] स्नुषां दुहितरं

भगिनीं वाऽभिचरत[२] लिङ्गच्छेदनं वधश्च । सकामा त.
देव लभेत । दासपरिचारकाहितकभुक्ता च । ब्राह्मण्याम-
गुप्तायां, क्षत्रियस्थोत्तम'. सर्वस्वं वैश्यस्य; शूद्रः कटाग्निना
दह्येत । सर्वत्र राजमार्यागमने कुम्भीपातः[३]
 श्वपाकीगमने कृतकवन्धाङ्क. परविषयं गच्छेत्, श्वपाकत्वं
वा। शूद्रस्वपाकस्य भार्यागमने वध' स्त्रियाः कर्णनासा-
च्छेदनम् ।।
 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः । सकामा तदेव
लभेत ॥
 [४]रूपाजीवायाः प्रसह्योपभोगे द्वादशपणो दण्डः ॥
 [५]बहूनामेकामधिचरतां पृथक्चतुर्विंशतिपणो दण्डः ॥
 [६]स्त्रियमयोनौ गच्छत. पूर्वस्साहसदण्ड ; पुरुषमाधिमेहतश्च॥
 मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः ।
 दैवतप्रतिमानां च गमने द्विगुणस्स्मृतः ॥

2968  [७]अदण्ड्यदण्डने राज्ञो दण्डस्त्रिंशद्गुणोऽम्भसि ।

 वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥

  1. याणा.
  2. धिचरतः.
  3. पाक .
  4. ' याश्य. II, 291
  5. ' याश्य. II, 291
  6. याश्य. II,
    293.
  7. वाय. II, 307.