पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९ प्रक.]
237
दाण्डकामकम्

 तेन तत्पूयते पापं राज्ञो दण्डापचारजम् ।296.9
 शास्ता हि वरुणो राजा मिथ्या व्याचरतां नृषु ॥

इति कण्टकशोधने अतिचारदण्ड त्रयोदशोऽध्याय .
आदितः नवतिः,
एतावता कौटिल्यस्यार्थशास्त्रस्य कण्टकशोधनं
चतुर्थमधिकरणं समाप्तम्




५ अधि. योगवृत्तम्.


८९ प्रक. दाण्डकर्मिकम्.



 दुर्गराष्ट्रयोः कण्टकशोधनमुक्तम् ।।
 राजराज्ययोर्वक्ष्यामः--

 राजानमवगृह्योप[१]जीविनः शत्रुसाधारणा वा ये मुख्या-
स्तेषु गूढपुरुषप्रणिधिः कृत्यपक्षोपग्रहो वा सिद्धिः यथोक्तं पुर-
स्तादपजापोपसर्पो वा यथा च पारग्रामिके वक्ष्यामः ।।
 राज्योपघातिनस्तु वल्लभास्संहत्या[२] वा ये मुख्याः प्रका
शमशक्या प्रतिषेद्धुं दूष्याः , तेषु धर्मरुचिरुपांशुदण्डं प्रयु-
ञ्जीत । दृष्यं महामात्रभ्रातरं सत्कृतं[३] सत्री प्रोत्सह्य रा. 297 4
जानं दर्शयेत् । तं राजा दूष्यद्रव्योपभोगातिसर्गेण दूष्ये.


  1. 1 मवथ्योप,
  2. सहता.
  3. असत्कृत