भावप्रकाशसंहिता/मध्यखण्डः/प्रथमः भागः/ग्रहणीरोगाधिकारः
← ज्वरातिसाराधिकारः | भावप्रकाशसंहिता/मध्यखण्डः/प्रथमः भागः ग्रहणीरोगाधिकारः श्रीभावमिश्रः |
अथ चतुर्थो ग्रहणीरोगाधिकारः ४
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् १
अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता
अपक्वं धारयत्यन्नं पक्वं त्यजति चाप्यधः २
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते ३
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीबलः
तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति
तस्मात्कार्यः परीहारो ह्यतिसारे विरिक्तवत् ४
एकैकशः सर्वशश्च दोषैरत्यन्तमूर्च्छितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ५
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ६
कटुतिक्तकषायाति रुक्षशीतलभोजनैः
प्रमितानशनात्यध्यवेग निग्रहमैथुनैः ७
मारुतः कुपितो वह्विं संछाद्य कुरुते गदम्
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ८
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ९
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्त्तिका
गृद्धिः सर्वरसानाञ्च मनसः सदनं तथा १०
जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ११
चिराद् दुःखं द्र्रवं शुष्कं तन्वामं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १२
कटुतिक्तविदाह्यम्लक्षाराद्यैः पित्तमुल्वणम्
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् १३
सोऽजीर्णं पीतनीलाभं पीताभः सार्यते द्र वम्
अत्यम्लोद्गारहृत्कण्ठदाहारुचितृषाऽदितः १४
गुर्वतिस्निग्धशीतादि भोजनादतिभोजनात्
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितःकफः १५
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
आस्योपदेहमाधुर्यकासष्ठी वनपीनसाः १६
हृदयं मन्यते स्तब्धमुदरं स्तिमितं गुरु
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १७
भिन्नामश्लेष्मसंश्लिष्टगुरुवर्चः प्रवर्त्तनम्
अकृशस्यापि दौर्बल्यमालस्यञ्च कफात्मके १८
पृथग्वातादिनिर्दिष्टहेतु लिङ्गसमागमे
त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १९
द्र वं घनं सितं स्निग्धं सकटीवेदनं शकृत्
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् २०
पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति
अन्त्रकूजनमालस्यं दौर्बल्यं सदनं भवेत् २१
दिवा प्रकोपो भवति रात्रौ शान्तिं च गच्छति
दुर्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी २२
सा भवेदामवातेन सङ्ग्रहग्रहणी मता २३
प्रसुप्तिः पार्श्वयोःशूलं तथा जलघटीध्वनिः
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् २४
ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत्
लङ्घनैर्दीपनीयैश्च सदाऽतीसारभेषजैः २५
दोषं सामं निरामञ्च विद्यादत्रातिसारवत्
अतिसारोक्तविधिना तस्यामञ्च विपाचयेत् २६
पेयाऽदि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम्
दीपनानि च तक्रं च ग्रहण्यां योजयेद्भिषक् २७
कपित्थबिल्वचाङ्गेरीत क्रदाडिमसाधिता
यवागूः पाचयत्यामं शकृत्संवर्त्तयत्यपि २८
गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम्
पवित्रं दीपनं स्निग्धं पुष्टिकृत्पवनापहम्
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् २९
माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्
स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषणम् ३०
आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्
शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम् ३१
तक्रन्तु घोलं मथितोदश्वित्तक्रप्रभेदतः
सुश्रुताद्यैर्मुनिश्रेष्ठैश्चतुर्द्धा परिकीर्त्तितम् ३२
ससरं निर्जलं घोलं मथितं त्वसरोदकम्
तक्रं पादजलं प्रोक्तमुदश्विच्चार्द्धवारिकम् ३३
वातपित्तहरं घोलं मथितं कफपित्तनुत्
उदश्वित्कफदं बल्यं श्रमघ्नं परमं मतम् ३४
तक्रं ग्राहि कषायाम्लं मधुरं दीपनं लघु
वीर्योष्णं बलदं वृष्यं प्रीणनं वातनाशनम् ३५
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत्
ग्रहण्यादिमतां तक्रं पथ्यं संग्राहि लाघवात् ३६
वातघ्नमम्लसान्द्र त्वात्सद्यस्कं त्वविदाहि च
किञ्च स्वादुविपाकं च अन्ते पित्तप्रकोपणम् ३७
कषायोष्णविकासित्वाद्रौ क्ष्याच्चैव कफे हितम् ३८
समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः
स्तोकोद्धृतघृतं तस्माद् गुरु वृप्यं कफावहम्
अनुद्धृतघृतं सान्द्रं गुरु पुष्टिवलप्रदम् ३९
वातेऽम्ल सैन्धवोपेतं पित्ते स्वादु सशर्करम्
पिबेत्तक्रं कफे चापि क्षारत्रिकटुसंयुतम् ४०
हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम्
ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातहरं परम् ४१
रोचनं पुष्टिदं बल्यं बस्तिशूलविनाशनम् ४२
तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च
पीनसश्वासकासादौ पक्वमेव विशिष्यते ४३
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ४४
न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः
यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः ४५
मुद्गयूषं रसं तक्रंधान्यजीरकसंयुतम्
सैन्धवेनान्वितं दद्यात्षड्यूषणमितीरितम् ४६
कर्षं गन्धकमर्द्धपारदमुभे कुर्याच्छुभां कज्जलद्यं
द्व्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक्
भृष्टं हिङ्गु च जीरकद्वययुतं सर्वार्द्धभङ्गाऽन्वितं
खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रेण बिल्वेन वा ४७
जातीफललवङ्गैला पत्रत्वङ्नागकेशरैः
कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ४८
तालीसपिप्लीपथ्यास्थूलजीरकचित्रकैः
शुण्ठीविडङ्गमरिचैः समभागं विचूर्णितैः ४९
यावन्त्येतानि सर्वाणि दद्याद्भङ्गाञ्च तावतीम्
सर्वचूर्णसमं कृत्वा प्रदेया शुभ्रशर्करा ५०
कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः
नाशयेद ग्रहणीं कासं क्षयकासमरोचकम् ५१
चित्रकं पिप्पलीमूलं क्षारो लवणपञ्चकम्
व्योषं हिङ्ग्वजमोदा च चव्यं चैकत्र चूर्णयेत् ५२
वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य च
कृता विपाचयत्यामं दीपयत्याशु चानलम् ५३
श्रीफलशलाटुमज्जा नागरचूर्णेन मिश्रितः सगुडः
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ५४
चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम्
वार्ताकोः कुडवं चार्कमूलाद्बिल्वं तथाऽनलात् ५५
दग्ध्वा द्र्रवेण वार्त्ताकोर्गुटिका भोजनान्तरे
भुक्ता भुक्तं पचत्याशु नाशयेद् ग्रहणीगदम्
कासं श्वासं तथाऽशासि विसूचीञ्च हृदामयम् ५६
मुस्तकातिविषाबिल्वकौटजं सूक्ष्मचूर्णितम्
मधुना च समालीढं ग्रहणीं सर्वजां जयेत् ५७
श्वेतो वा यदि वा रक्तः सुपक्को ग्रहणीगदः
गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ५८
बिल्वाब्दशक्रयवबालकमोचसिद्धमाजं पयः पिबति यो दिवसत्रयं ना
सोऽतिप्रवृद्धचिरजं ग्रहणीविकारं सामं सशोणितमसाध्यमपि क्षिणोति ५९
प्रस्थत्रयं त्वामलकीरसस्य शुद्धस्य दत्वाऽद्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषैः सकृष्णाहपुषाऽजमोदैः ६०
विडङ्गसिन्धुत्रिफलायवानीपाठाऽग्निधान्यैश्च पलप्रमाणैः
दत्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ६१
तं भक्षयेदक्षपलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ६२
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्क्वस्य च वृद्धिहेतुः
स्त्रीणान्तु वन्ध्याऽमयनाशनः स्यात् कल्याणको नाम गुडः प्रसिद्धः ६३
तैले मनाक् त्रिवृद् भृष्ट्वा त्रिफलायाः पलत्रयम्
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके ६४
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
धान्यकञ्च विडङ्गानि यवानी मरिचानि च ६५
त्रिफला चाजमोदा च नीलिनी जीरकस्तथा
सैन्धवं रोमकञ्चापि सामुद्रं रुचकं विडम् ६६
आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्जिका
शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ६७
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि
त्रिवृतायाःपलान्यष्टौ गुडस्यार्द्धतुलां तथा ६८
तिलतैलपलान्यष्टावामलक्या रसस्य तु
प्रस्थत्रयमिदं सर्वं शनैर्मृद्वग्निना पचेत् ६९
औदुम्बरं चामलकं बादरञ्च यथाबलम्
तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७०
निखिलान्ग्रहणीरोगान्प्रमेहांश्चैव विंशतिम्
उरोघातं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् ७१
ज्वरानपि हरेत्सर्वान्कुर्यात्कान्तिं मतिं बलम्
पाण्डुरोगाञ्जवाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ७२
धातुक्षीणो वयः क्षीणः स्त्रीपु क्षीणः क्षयी च यः
तेभ्योहितश्च वन्ध्यायै महाकल्याणको गुडः ७३
कूष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम्
सर्पिःप्रस्थं पलशतं ताम्रपात्रे शनैः पचेत् ७४
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
धान्यकानि विडङ्गानिनागरं मरिचानि च ७५
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम्
एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च ७६
तैलस्य च पलान्यष्टौ गुडात्पञ्चाशदेव तु
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ७७
तावत्पाकं प्रकुर्वीत मृदुना वह्निना भिषक्
यावद्दर्व्याः प्रलेपः स्यात्तदैनमवतारयेत् ७८
औदुम्बरं चामलकं बादरं वा यथाबलम्
तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७९
अनेनैव विधानेन प्रयुक्तश्च दिने दिने
निहन्ति ग्रहणीरोगान्कुष्ठानर्शोभगन्दरान् ८०
ज्वरमानाहहृद्रो गं गुल्मोदरविसूचिकाः
कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ८१
वातशोणितवी सर्पदद्रुयक्ष्महलीमकान्
वातपित्तकफान्सर्वान्दुष्टाञ्छुद्धान्समाचरेत् ८२
व्याधिक्षीणा वयः क्षीणाः स्त्रीषुक्षीणाश्च ये नराः
तेभ्यो हितो गुडोऽय स्याद्वन्ध्यानामपि पुत्रदः
वृष्यो बल्यो बृंहणश्च वयसः स्थापनं तथा ८३
अतीसाराधिकार लिखितं बिल्वतैलञ्चात्र हितम्
इति चतुर्थोग्रहणीरोगाधिकारः समाप्तः ४