भावप्रकाशसंहिता/मध्यखण्डः/प्रथमः भागः/ज्वरातिसाराधिकारः

विकिस्रोतः तः
← अतिसाराधिकारः भावप्रकाशसंहिता/मध्यखण्डः/प्रथमः भागः
ज्वरातिसाराधिकारः
श्रीभावमिश्रः
ग्रहणीरोगाधिकारः →

अथ तृतीयो ज्वरातिसाराधिकारः ३
ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक्
तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः १
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक्
न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः २
अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः ३
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत् ४
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ५
पृश्निपर्णीबला बिल्वधनिकानागरोत्पलैः
ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः ६
कणाकरिकणालाजक्वाथो मधुसितायुतः
पीतो ज्वरातिसारस्य तृष्णामाशु विनाशयेत् ७
नागरातिविषामुस्ताऽमृताभूनिम्बवत्सकैः
क्वाथः सर्वज्वरान्हन्ति चातिसारं सुदारुणम् ८
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः
पाठाभूनिम्बकुटजचन्दनोशीरपर्पटैः ९
पिबेत्कषायं सक्षौद्रं ज्वरातीसारनाशनम्
हृल्लासारुचितृड्दाहवमीनाञ्च निवृत्तये १०
उत्पलं दाडिमत्वक्च पद्मकेशरमेव च
पीतं तण्डुलतोयेन ज्वरातीसारनाशनम् ११
बिल्वबालकभूनिम्बगुडूचीमुस्तवत्सकैः
कषायःपाचनःशोथज्वरातीसारनाशनः १२
नागरातिविषाबिल्वगुडूचीमुस्तवत्सकैः
कषायः पाचनः शोथज्वरातीसारनाशनः १३
दशमूलीकषायेण विश्वमक्षसमां पिबेत्
ज्वरे चैवातिसारे च सशोथे ग्रहणी गदे १४
इति तृतीयाज्वरातिसारः समाप्तः ३