काठकसंहिता (विस्वरः)/वचनम् ११

विकिस्रोतः तः
← दशमं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (एकादशं वचनम् )
[[लेखकः :|]]
द्वादशं वचनम्  →
नमस्कारवचनम्

अथैकादशं वचनम् ।

नमस्कारवचनम् ।
अग्नये नमो गायत्र्यै नमस्त्रिवृते नमो रथन्तराय नमो वसन्ताय नमः प्राच्यै दिशे नमः प्राणाय नमो वसुभ्यो नमः ॥१॥

इन्द्राय नमस्त्रिष्टुभे नमः पञ्चदशाय नमो बृहते नमो ग्रीष्माय नमो दक्षिणायै दिशे नमो व्यानाय नमो रुद्रेभ्यो नमः ॥२॥

मरुद्भ्यो नमो जगत्यै नमस्सप्तदशाय नमो वैरूपाय नमो वर्षाभ्यो नमः प्रतीच्यै दिशे नमोऽपानाय नम आदित्येभ्यो नमः ॥३॥

विश्वेभ्यो देवेभ्यो नमोऽनुष्टुभे नम एकविँशाय नमो वैराजाय नमश्शरदे नम उदीच्ये दिशे नमस्समानाय नमश्चन्द्रमसे नमः ॥४॥

मित्रावरुणाभ्यां नमः पङ्क्त्यै नमस्त्रिणवत्रयस्त्रिँशाभ्यो नमश्शाक्वररैवताभ्यां नमो हेमन्तशिशिराभ्यां नम ऊर्ध्वायै दिशे नम उदानाय नमो विष्णवे नमः ॥५॥

पृथिव्यै नमोऽग्नये नमो भूताय नमश्चक्षुषे नमोऽन्तरिक्षाय नमो वायवे नमो भव्याय नमश्श्रोत्राय नमो दिवे नमस्सूर्याय नमो भविष्यते नमो मनसे नमः ॥६॥ [३०१४]


॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे नमस्कारवचनं नामैकादशं वचनं संपूर्णम् ॥११॥