क्तः । ‘प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । केचित्क-.. र्मणि त्कान्तं कृत्वा ईक्षितं मुनिं ददर्शेति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनि- धाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाद्व्यतिरेकः । तदुक्तं काव्यप्रकाशे-‘उपमानाद्यदन्यस्य व्यतिरेकः स एव सः' इति । ‘धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां । प्रथमपठितेन ‘द्विधाकृतात्मा किमयं दिवाकरो, विधूमरोचिः किमयं हुता- शनः' इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्य चरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात् ॥ २ ॥
अथ भगवान्निरणैषीदित्याह-
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥३॥
चय इति ॥ विभुर्वस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं त्विषां चय इत्यवधारितं तेजःपुञ्जमात्रत्वेन विनिश्चितम् । ततः प्रत्यासन्ने सति विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अत एव शरीरी चेतन इत्यवधा- रितम् । ततो विभक्ता विविच्य गृहीता अवयवा सुखादयो यस्य तं तथोक्तम् । अत एव पुमानित्यवधारितम् । अमुमागच्छन्तं व्यक्तिविशेषं नारदं वास्तवाभिप्रा- येणेति पुंलिङ्गनिर्वाहः । क्रमात् पूर्वोक्तसामान्यविशेषज्ञानक्रमेण । लोकदृष्ट्येदमु- क्तम् । हरिस्तु सर्वं वेदैवेति तत्त्वम् । नारद इत्यबोधि । नारदं बुद्धवानित्यर्थः । नारदस्य कर्मत्वेऽपि निपातशब्देनाभिहितत्वान्न द्वितीया । तिङामुपसंख्या- नस्योपलक्षणत्वात् । यथाह वामनः–‘निपातेनाभिहिते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात्' इति बुध्यतेः कर्तरि लुङ् । ‘दीपजन-' (३।१।६१ ) इत्यादिना चिण् । ‘चिणो लुक्’ (६।४।१०४ ) इति तस्य लुक् । अत्र विभा- विताकृतिं विभक्तावयवमित्यादिना आकृतिविभावनावयवविभावनयोः पदार्थयो- र्विशेषणवृत्त्या शरीरित्वपुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलं- कारः । ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥ ३ ॥
अथ सप्तभिर्मुनिं विशिनष्टि-
नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् ।।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥४॥
नवानित्यादिभिः ।। कीदृशममुम् । नवान्सद्यः संभृतसलिलान् । अतिनीला- निति यावत् । बृहतो विपुलान्पयोधरान्मेघानधोऽधः । मेघानां समीपाधःप्रदेशे स्थितमिति शेषः । ‘उपर्यध्यधसः सामीप्ये' (८।१।७ ) इति द्विर्भावः । तद्योगे
द्वितीया । ‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु’ ईत्यादिवचनात् । समूढः पुञ्जी-
पाठा०-१ '०भ्यां तदसंभाविनाधः'. २ '°कालङ्कारः'. ३ ‘द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥' इत्यधिकम्.