ज्ञानपादः/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ ज्ञानपादः
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्
पञ्चमोऽध्यायः
ब्रह्माः----
प्रकृत्या तस्य संयोगो जायते केन हेतुना।
एतदाचक्ष्व भगवन् रहस्यं दुर्लभं (1) मम।। 5.1 ।।
(1. मतम्)
श्रीभगवान्---
प्रकृत्या पुरुषस्य संयोगे हेतुः।
मन्माया कारणं ब्रह्मन्न नादिरविनाशिनी।
युनक्ति पुरुषं सैषा प्रकृत्या गुणरूपया।। 5.2 ।।
भगवतः प्रसादात् प्रकृत्या वियोगः
मत्प्रसादं विना तस्य न विरामो स्ति कस्य चित्।
यावन्नाहं प्रसीदामि तावन्माया दुरत्यया।। 5.3 ।।
पूर्णकामस्य भगवतः प्रसादे निबन्धनम्.
ब्रह्माः----
पूर्ण कामस्य देवस्य प्रसादे किं निबन्धनम्।
न जाने कारणं तस्य तन्मे ब्रूहि निबन्धनम्।। 5.4 ।।
श्रीभगवाः----
वर्णानामाश्रमाणां च मर्यादायामयाकृता
तां ये समनुवर्त न्ते प्रसाद स्तेषु मे महान्।। 5.5 ।।
तस्मात्संसारिणां पुंसां मत्प्रसादं विना क्वचित्।
निश्श्रेयसकरं नास्यद्भध्यस्व कमलासन।। 5.6 ।।
ब्रह्माः---
भगवन् देवदेवेश जानामि पुरुषोत्तम।
त्वामेव जगतां मन्ये स्रष्टापं कमलेक्षण।। 5.7 ।।
प्रभवन्ति यतो लोकाः प्रलयं यान्ति यत्र च।
भगवन् तदशेषेण (2) ज्ञातुमिच्छामि शंस मे।। 5.8 ।।
(2. श्रोतुं)
सृष्ट्यादिनिरूपणम्।
श्रीभगवान्---
प्रकृतिः पुरुषश्चोभे मम रूपे दुरत्यये।
अनुप्रविश्य द्वितयां क्षोभयाम्यहमिच्छया।। 5.9 ।।
प्रकृति स्त्रि गुणा ब्रह्मन्ननादिरविनाशिनी।
पुरुषाधिष्ठिता सूते स्थावराणि चराणि च।। 5.10 ।।
गुणसाम्यात्मन स्तस्मात्पुरुषाधिष्ठि तात्पुनः।
अजायत महत्तत्वं त्रिविधं त्रिविधैर्गणैः।। 5.11 ।।
अहङ्कारस्ततो जात स्तस्य तिस्रो विधाः स्मृताः।
वै कारिकस्तैजसश्च (3) भूतादिश्चेति तत्त्रिधा।। 5.12 ।।
(3. भौतिकश्चेति.)
वैकारिकादहङ्कारात्सात्विकाः पञ्चहज्ञि रे।
ज्ञानेन्द्रियाणि पंचैव राजसात्तैजसात्पुनः।। 5.13 ।।
कर्मेन्द्रियाणि जातानि भूतादेस्तामसादथ।
शब्दतन्मात्रमभवत्तच्चा काशमजीजनत्।। 5.14 ।।
स्पर्शतन्मात्रमाकाशा त्तस्माद्वायुरजायत।
रूपमात्रं ततो वायो स्तस्मादग्निरजायत।। 5.15 ।।
रसमात्रमजन्यग्ने स्तस्मादापः प्रजज्ञिरे।
गन्धतस्मात्रमद्भ्योपि गन्धमात्रात्तथा मही।। 5.16 ।।
शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः।
शब्दस्पर्शौ तथा रूपं तद्वदग्नेरुदाहृतम्।। 5.17 ।।
(4) शब्दस्स्पर्शौ रसो रूपं चातुर्गुण्यपां स्मृतम्।
शब्दस्पर्शौ रूपरसौ गन्धः पञ्चगुणा मही।। 5.18 ।।
(4.शब्दस्पर्शौ रूपरसौ.)
नानावीर्याः पृथग्भूतास्ते सृष्टास्संहतिं विना।
नाशक्नुवन्प्रजास्स्रष्टुं ततसै संहतास्स्वयम्।। 5.19 ।।
महदादि विशेषान्ताः प्रधानपुरुषेरिताः।
अण्‍डं ममांशभूतस्य पद्म नाभस्य मद्मज।। 5.20 ।।
नाभेरजायत ततो जगद्योनिरभूद्भवान्।
सर्गादौ प्रकृतेरेवमुद्भूतमखिलं जगत्।। 5.21 ।।
लीयते प्रकृतावेव कल्पान्ते कमलासन।।
ब्रह्माः---
मन्ये त्वया जगत्सृष्टं विधृतं च त्वया विभो।
कालरूप स्त्वमेवैकः कल्वान्ते सञ्चहर्थ च।। 5.22 ।।
इदानीं वद मेज्ञानं ब्रह्मसिद्धिदमच्युत।
यज्ज्ञात्वा न पुनर्जन्म मरणं भवबद्धनम्।
ब्रह्मज्ञानद्वै विध्यम्।
श्रीभगवान्---
ज्ञानं द्विविधमाख्यातं सत्वाख्यं चक्रियात्मकम्।
(5) सत्वाख्यस्य क्रियाख्येन सिद्धिरव्यभिचारिणी।। 5.23 ।।
(5.तत्वाख्यस्य इतिक्वचित् इतः प्रभृतिश्लोकेषु सत्वशब्दस्थाने सत्ता शब्दः कोशान्तरे दुश्यते,)
ब्रह्माः---
ज्ञानं क्रियात्मकं तावत् वद क्रीयग्विधं प्रभो।
योनाभ्यस्तेन सत्वाख्यं यास्यामि ब्रह्म(6) सिद्धिदम्।। 5.24 ।।
(6. साधनम्)
सत्वक्रियात्मकज्ञान लक्षणम्।
श्री भगवान्----
यमश्च नियम (7) श्चैवक्रियाख्यं द्विविधं स्मृतम्।
ताभ्यां ज्ञानंच सत्वाख्यं प्राप्नोत्येव न संशयः।। 5.25 ।।
(7.श्चेति क्रियाच द्विविधा स्मृता,)
ब्रह्मण्यभिन्नं सत्वाख्यं ज्ञानाज् ज्ञेयमवाप्यते।
(8) ज्ञानान्मुक्तः परानन्दे परमात्मनि (9) पद्मज।। 5.26 ।।
(8.ज्ञेयात्,) (9.परन्धामनि.)
ब्रह्माः----
ब्रह्मप्राप्तौ (10) त्वया सम्यगुपायः कथितः पुरा।
इदानीं देव देवेश ब्रूहि मे ब्रह्मलक्षणम्।। 5.27 ।।
(10.प्राप्तुम्.)
ब्रह्मलक्षणम्।
श्रीभगवान्----
आनन्दलक्षणं ब्रह्म नादरूपमविक्रियम्।
क्लेशादिभिरसंस्पृष्टं निष्क्रियं निर्विकल्पकम्।। 5.28 ।।
अद्वन्द्वमनवच्छिन्नं स्वसंवेद्यं निरञ्चनम्।
सुसूक्ष्मं स्ववशं स्वैरं स्वयं ज्योति (11) रनादिमत्।। 5.29 ।।
(11. रनामयां)
अनन्तमक्षयं शान्तमदृष्टा न्तमवृद्धिमत्।
ध्रुवमेकं (12) सदा नन्दं चिद्रूपं सर्वगं परम्।। 5.30 ।।
(12.चिदानन्दम्.)
गतागतविनिर्मुक्तं वासुदेवाह्वयं विभु।
प्रभवं सर्वभूतानामीश्वरं पुरुषोत्तमम्।। 5.31 ।।
स्वभावनिर्मलं नित्यं निस्तरङ्गं निराकुलम्।
निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्।। 5.32 ।।
हीनवर्णैरसंसेव्यं मोक्षमाणैरतर्कितम्।
अध्येयं ध्येयमाश्चर्यमवाज्मनसगोचरम्।। 5.33 ।।
षाड्गुण्यविग्रहं सर्वशक्ति (13) स्वाश्रयमाश्रीतम्।
भूतेशं भूतकृद्भूतं तमसः (14) परतः स्थितम्।। 5.34 ।।
(13. स्थान समाश्रितम्.) (14.पारमास्थितम्)
(15) प्रधानं प्रकृतेरन्यद्भोग्यं भोक्तृ निरङ्कुशम्।
प्रमाणप्रत्ययातीतं सर्वतोक्षिशिरोमुखम्।। 5.35 ।।
(15.प्रधानात्.)
सर्वतः पाणिचरणं सर्वमावृत्य (16) विष्ठितम्।
बहिरन्तस्थ्सितं व्यापि(17) सर्व तन्त्रातिशासनम्।। 5.36 ।।
(16.तिष्ठति.)(17.सर्वतश्श्रुतिशालिवनम्)
अजमोङ्कारमव्यक्तं मूलमन्त्रात्मकं शिवम्।
(18) मायारूपंचमायाभि(19)न्नित्यतृप्तमणोरणु।। 5.37 ।।
(18.मायातीतं) (19.अनायासम्)
महतोऽपि महा स्थूल (20) मतुलं मृदु दीप्तिमत्।
अमूर्तं मूर्तमोजस्वि चिद्घनं (21) निरुपद्रवम्।। 5.38 ।।
(20.सद्वक्रमृजु. अमृतं मृदु.) (21. निरपाश्रयं)
पश्यन्नित्थं परं ब्रह्म परेण ज्ञानचक्षुषा।
योगयुक्तस्सदा मर्त्यः प्राप्नोति च परं पदम्।। 5.39 ।।
इति श्री पञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे (22) ब्रह्मालक्षणं नाम
(22.आनन्दलक्षणम्)
पञ्चमोऽध्यायः


*************------------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_५&oldid=206956" इत्यस्माद् प्रतिप्राप्तम्