ज्ञानपादः/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ ज्ञानपादः
अध्यायः १२
[[लेखकः :|]]
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्
द्वादशोऽध्यायः

  • भुवरादिलोक स्वरूप निरूपणम् *

ब्रह्मा----
विस्तारः कथितो भूमेः लोकास्सफ्तातलादिकाः।
नरकाणि तथोक्तानि सांप्रतं भगवन्मम।। 12.1 ।।
भुवः प्रभृतिलोकानां रूरं मानं च कथ्यताम्।
श्रीभगवान्---
यावत्प्रमाणा वृथिवी विस्तीर्णा परिमण्डला।। 12.2 ।।
तावद्भुवस्थ्सलं ब्रह्मन् विस्तीर्णं परिमण्डलम्।

  • भूसूर्ययोरन्तरमानादि *

उपरिष्टात्क्षितेर्व्योम्नि लक्षयोजनसङ्ख्यया।। 12.3 ।।
रविस्तिष्ठति (1) तिग्मैस्स्वैरंशुभिर्भासयन् जगत्।
रथमास्थाय भगवान् बहुयोजन (2) विस्तृतम्।। 12.4 ।।
(1.मेरुं स्वैः इति क्वचित् अन्यत्र `खेस्त्वेरम्' इति.) (2. सम्मितम्)
वामपार्श्वे रथस्यैकं चक्रं दिस्यं प्रतिष्ठितम्।
वहन्ति सप्तयस्सप्त छन्धांसि स्यन्दनं महत्।। 12.5 ।।
सारथिश्चारुणस्शर्वानश्वान्वाहयति स्वयम्।
मानसोत्तर शैलस्य मूर्ध्नि स्यन्दनपद्धतिः।। 12.6 ।।
(3) विभाग हेतुरुषसामह्ना (4) मपि गतिक्रमात्।
(3. प्राग्भागेहेतुपुरुषसामान्य वगति क्रमात्.) (4. मतिगतिः)
(5) योगिनां (6) परमः पन्थाः स्मृतः क्लेशपरिक्षये।। 12.7 ।।
(5.इदमर्धं क्वचिन्नास्ति.) (6. चरमः)
मोक्षमाणाः पथानेन यान्तिविष्णोः परं पदम्।
उदयान्तमयौ नैव (7) भानुस्सर्वत्र सम्मुखः।। 12.8 ।।
(7.भानोः)
दर्शनादर्शने भानो रुदया स्तमयौ मतौ।।
यैर्मत्र दृश्यते भानुस्स तेशामुदयस्स्मृतः।।
(8) याति यत्र तिरोभावं तत्रास्तमयधीर्नृणाम्।। 12.9 ।।
(8. यदायत्र दिरोभावस्तत्रा.)
स्फीता भवन्ति पूर्वाह्णे रस्मयोऽर्कस्य सन्तताः।
ह्रस्वीभवन्ति पश्चात्तु यावत्तेषामदर्शनम्।। 12.10 ।।
वर्जयित्वा पुरीं धातुस्सर्वतो मेरुभूधरे।
पतन्ति भानवो भानोस्तिर्य गूर्ध्वमधस्तथा।। 12.11 ।।
सभां तु ब्रह्मणो गत्वा (9) प्रस्थितं पान्ति यो पुनः।
ब्रह्मणस्तेजसा तेन नान्यत्र स्खलनं क्वचित्।। 12.12 ।।
(9.प्रतिपद्यन्ति ते.)

  • भुवलोकः *

भूसूर्ययोरन्तरालं भुवस्थ्सलमुदाहृतम्।
विद्याधराश्च गन्धर्वा स्सिद्धाश्च सह दानवैः।। 12.13 ।।
वसन्ति मुदिता स्वेषु पुरेष्वेव पृथक्पृथक्।

  • सूर्यध्रुवयोरन्तराले इतरग्रहनां स्थितिः *

लक्षे दिवाकरस्थानाश्छशिनः स्थानमीरितम्।। 12.14 ।।
तस्योपरिष्टात्तष्ठन्ति नक्षत्राणि यथायथम्।
(10) लक्षत्रयमतीत्योर्ध्वं बुधस्य स्थितिरुच्यते।। 12.15 ।।
उशना तु स्थितो लक्षद्वयमु त्तीर्य तिष्ठति।
तद्योजनान्यतिक्रम्य भौमन्ति ष्ठति सर्वदा।। 12.16 ।।
तावत्प्रमाणेऽवस्थानं गुरो स्तस्योपरि स्थितिः।
शनैश्चरस्तत्प्रमाणमतीत्योर्ध्वं रवेस्सुतः।। 12.17 ।।
(11) लक्षलक्ष क्रमादूर्ध्वं नक्षत्रं मुनयः परे।
परस्सहस्रं ऋषयस्सन्त्युपर्यूर्ध्व (12) गामिनः।। 12.18 ।।
(11. लक्षद्वयात्क्रमादूर्ध्वं) (12. रेतसः।। ततोर्ध्वमास्थितंस्थाने.)
ततो ध्रुवस्थ्सितस्थ्साने दुरारोहे महर्षिभिः।
द्वादशारं महाचक्रं नेमी द्वे तस्य नाभयः।। 12.19 ।।
(13.) तिस्रस्सन्ति न सन्त्यस्य मासपास्तेष्वरेषु ते।
मेषादयोप्यरेष्ववं (14) मीनान्ताद्वादश स्थिताः।। 12.20 ।।
(13. तिस्रस्सन्ति वसन्त्यत्र मासपक्षे विलासिते. अन्यत्र---`तिस्रस्सन्तिवनन्तस्य मासाद्यासैषु रेभिरे। इति अत्र आशुद्धमिन भाति) (14. राशयो.)
माना द्वादश चैत्राद्या वसन्तप्रमुखा स्तथा।
ऋतवष्षट्सङ्क्रमाश्च (15) विषुवद्वायनद्वयम्।। 12.21 ।।
(15. विषुवाह्यमनद्वयम्.)
सितासितौ च पक्षौ द्वौ युगभेदाश्च वत्सराः।
त्रुट्यादयः कालभेदाश्चक्रधारासु विष्ठिताः।। 12.22 ।।
ध्रुवः स्थितो ना भिमध्ये प्रादक्षिण्येन राशयः।
प्रसव्येन ग्रहास्सर्वे चरन्ति गतिरीदृशी।। 12.23 ।।
कुलालचक्रमध्यस्थमृत्पिण्ड सदृशो ध्रुवः।
भ्रमन्ति परितस्सर्वे ध्रुवं ज्योतिर्गणास्सदा।। 12.24 ।।

  • सुवर्लोकः *

आदित्यध्रुवयोर्मध्ये देशस्य्वर्गसमाह्ययः।
वसन्ति तस्मिन् गीर्वाणा विमानेषु पृथक्पृथक्।। 12.25 ।।
(16) असङ्ख्याता नित्यतृप्ताः ज्योतिर्मयवपुर्धराः।
तेषां गङ्गाजलं सेव्यं पुष्पाणि सुरभूरुहाम्।। 12.26 ।।
(16. असङ्ख्यानित्यतृप्तासै.)
धनं च चिन्तामणयः स्त्रियश्चाप्सरसः स्मृताः।
(17) सिद्धादयो वपन्तिस्मपुरेषु निरुपद्रवाः।
उतेन्द्र मूर्तिर्भगवा नासीवन्तत्र सर्वदा।। 12.27 ।।
(17. भूसूर्ययोरन्तरालं भुवस्थ्सलमितिस्मृतम्. इदमर्धं अत्र प्रमादपतितं क्वचित्को शे.)
रक्षति स्वर्गनिलयन् देवादीन् स्वेन तेजसा।
भूर्भवस्स्वस्त्रयोलोकाः लक्षाः पञ्चदश स्मृताः।। 12.28 ।।
ततः परं महर्लोकः कोतियोजनमायतः।
सनन्दनाद्या मुनयो वसन्ति दशकोटयः।। 12.29 ।।

  • जनोलोकादि निरूपणम्*

ततः परं जनोलोकः कोटिद्वयसमायतः।
अनन्तरं तपोलोकः स्थितः कोटिभिरष्टभिः।। 12.30 ।।
(18) योजनानां सत्यलोकः (19) पुनस्त्रिगुणमायतः।
कोटित्रययुतं तस्मादूर्ध्वं धातुः (20) पुरं स्थितम्।। 12.31 ।।
(18. योजनानामित्यर्धक्वचिन्नास्ति.) (19.पुनस्तद्ध्विगुणायतः) (20. पुरस्थितः योजनानां कोटिः पुनस्तद्ध्वगुणायतिः इत्यर्द्धं. क्वचिदधिकं दृश्यते.)
तब्ब्रह्मलोकं मुनयः गृणन्ति कमलासन।
लक्षयोजनविस्तारं (21) सालप्रासादगोपुरम्।। 12.32 ।।
(21. सालप्राकारसंकुलम्.)

  • प्रकृतिमण्‍डलस्थ विष्णुलोकः *

उत्तरेण ब्रह्मलो काद्द्विष्णुलोकं विदुर्बुधाः।
अन्तरं लोकयोरुक्तं लक्षयोजनसंमितम्।। 12.33 ।।

  • शिवलोकः *

तावत्ये वा न्तरालेऽस्य दक्षिणस्यां दिशि स्थितः।
शिवलोकश्चतुर्वक्त्र तस्मिन्ना स्ते शिवस्स्वयम्।। 12.34 ।।

  • उर्ध्वक्रमेण भगवतः पञ्चलोकाः *

योजनानां (22) कोटि मूध्वन् मुल्लङ्घ्य पुरतः स्थितः।
सर्वात्वा भगवासूर्ध्वं तस्मात्कोटित्रयाय ते।। 12.35 ।।
(22. कोटिरूर्ध्वे उल्लंघ्ये पुरतस्थ्सिते।)
निवृत्यात्मा निवसति भगवानव्ययस्स्वयम्।
तावत्येव स्थितो माने विश्वात्मा विश्वकृद्धरिः।। 12.36 ।।
पुरुषात्मा (23) पुरस्तात्तु चतुष्कोटि प्रमाणके।
स्थितः कोटीरतीत्योर्ध्वं (24) पञ्च पश्चादवस्थितः।। 12.37 ।।
(23.परस्मात्तु.) (24. पञ्च पञ्च दस्थितः)
परमेष्ठि स भगवान् पश्चकं विष्णु (25) विष्टरम्।
अध्यास्ते भगवान्नित्यं शङ्खचक्र गदादरः।। 12.38 ।।
(25. विष्टपं)
पश्चशक्तिमयो विष्णुः कोटियोजनसंमिते।
आस्ते श्रीभूमिसहितो वैन तेयेन सेवितः।। 12.39 ।।

  • अण्‍डभित्तिः *

अण्‍डभित्तिरुपर्यस्य (26) स्थितो र्ध्वे कोटियोजने।
घनं च (27) तस्याः कोट्या तु संमितं कमलासन।। 12.40 ।।
(26. स्थितार्धा.) (27. तस्यां कोटिस्तु.)
शुद्धं हिरण्ययं ज्ञेयमण्डं तद्विस्म यावहम्।

  • अवरणसप्तकम्*

एतेनण्डकटाहेन लोकास्सर्वे समावृताः।। 12.41 ।।
उपर्युपर्यमी लोकाः कपित्थफलवत् स्थिताः।
(28) तद्दशो त्तरसङ्ख्ये वारिणा परिवेष्टितम्।। 12.42 ।।
(28.तद्धेशान्तरसंख्येन.)
(29) आवृत्याण्डं यथावारि स्थितं तद्यत्तदग्निना।
स वायुना तद्वदेव स व्योम्ना च समावृतः।। 12.43 ।।
(29.अवृत्य तद्यथावारि वह्निना परिसङ्खया.)
सर्वं दशोत्तरं विद्यात्तद्व्योम महतावृतम्।
(30) महांश्च स प्रधानेन प्रधानं तमसावृतम्।। 12.44 ।।
(30.मया सर्वप्रधानेव. एवं निरूपणस्य सङ्गतिश्विन्त्या.)
तदनन्तमपर्यन्तं (31) न सङ्ख्या तत्र विद्यते।
हेतुभूतम शेषस्य तमसः प्रकृतिः परा।। 12.45 ।।
(31. सङ्ख्या तत्र न विद्यते)

  • अण्‍डानामसङ्ख्यातत्वम्*

अण्‍डानामीदृशां ब्रह्मन् सहस्राण्ययुतानि च।
बहुनापि किमु क्तेन सङ्ख्या वक्तुं न शक्यते।। 12.46 ।।

  • नारायणेनान्तर्बहिर्व्याप्तिः *

अण्डानि तानि सर्वणि व्याप्य नारायणः स्थितः।
अन्तश्च तेषां भगवान् सर्वव्यापी परः पुमान्।। 12.47 ।।
बहिश्च साक्षिवत्सर्व मीक्षमाणोऽवतिष्ठते।

  • चत्वारोव्यूहिलोकाः *

महतस्तमसो (32) भाह्ये लोका स्सुबहुयोजनाः।। 12.48 ।।
(32. भह्यो योगः)
चत्वारः क्रमशस्सन्ति चतुर्भिस्समधिष्ठिताः।
व्यूहैः क्रमेण वक्ष्ये ताननिरुद्धः परः स्मृतः।। 12.49 ।।
प्रद्युम्नोऽन न्तरं तेषां सङ्कर्षण समाह्वयः।
वासुदेवस्ततः पश्चाद्व्यूहाख्यः कमलासन।। 12.50 ।।
(33) विभवाख्यो वासुदेवस्तदनन्तरमीरितः।
अनादिर्वासुदेवश्च तयोर्लोका वनुक्रमात्।। 12.51 ।।
(33.प्यूहाख्यो वसुदेवस्तु.)
(34) ततो नारायणस्यापि लोकस्तन्निकटे स्थितः।
एकैकस्यान्तरं कोटिर्योहनानामुदीरिता।। 12.52 ।।
(34. स्मृत्यो श्रिमहीभ्यां सह स्थितः)
तावानेव च विस्तारसैषामति मनोहरः।

  • वैकुण्ठलोकः *

तेभ्यो बहिस्थ्सितो लोको यत्रास्ते भगवानजः।। 12.53 ।।
अनादिर्वासुदेशाख्यश्शोभिते मणिमण्टपे।
शेषभोगासने दिव्ये (35) श्रीभूभ्यां सममास्थितः।। 12.54 ।।
(35. भवति यत्किञ्चित्)
व्याप्त्यादिभिस्तथाष्टाभिश्शक्तिभिः परिवारितः।
वालव्यजनहस्ताभि स्त्येव्यमानाभिरन्तिके।। 12.55 ।।
सेनेशाद्यैः पारिषदैश्च क्राद्यैरायुधैरपि।
प्रणमद्भिस्सेव्यमानस्सामीप्यादिपदस्थितैः।। 12.56 ।।
मुक्तैश्च पञ्चकालज्ञैस्तिद्धैः किङ्करतां गतैः।
उपास्यमानस्सततं द्वादशाक्षरचिन्तकैः।। 12.57 ।।
अष्टाङ्गयोगसंसिद्धैर्बहुभिर्भगवन्मयैः।
पञ्चरात्रार्धतत्वज्ञैर्नित्यतृप्तैस्तमीपगैः।। 12.58 ।।
यथार्हं भगवच्छेषकर्मनिष्ठेर्महात्मभिः।
दिगेषा कथिता ब्रह्मन् धन्यानां तत्र तिष्ठताम्।। 12.59 ।।
अन्तर्गतानां लोकाना मण्डेषु बहिरप्यथ।
विस्तारः (36) कथ्यते नैव दुर्ग्रहत्वाद्भवादृशैः।। 12.60 ।।
(36.कथितो.)

  • पदार्थनिगमनम्.*

सारमात्रं समुद्धृत्य सर्पतस्समुदाहृतम्।

  • ब्रष्मणाकृतज्ञताप्रकाशनम् *

ब्रह्माः----
ज्ञानं (37) भगवतः किञ्चिदज्ञानं ये न हव्यते।। 12.61 ।।
(37. भवति यत्किञ्चित्)
नष्टमज्ञान तिमिरं ज्ञानं तद्धर्शितं महत्।
सर्वे च संशया नष्ठाः प्रसादा (38) द्भगवन्मम।। 12.62 ।।
(38. द्भतो मम.)

  • यथोक्तज्ञानस्य संप्रतायशुद्धिः *

पद्मः----
इति गुह्यतमं ज्ञानं भगवान् ब्रह्मणे ददौ।
ब्रह्मापि तद्यथातत्वं कपिलायावतारयत्।। 12.63 ।।
कपिलोपि महर्षिस्तत् ज्ञानं मम यधातथम्।
ददौ तुभ्यं तदत्येनं पारंपर्यक्रमागतम्।। 12.64 ।।
(39) सिद्धान्तज्ञानमुत्कृष्टं त्वय्यनुग्रहकाम्यया।
भगवन्मयमाख्यातं रहस्यतरमद्भुतम्।। 12.65 ।।
(39. संवर्तज्ञरान.)
भगवन्मयमाख्यातं रहस्यतरमद्भुतम्।

  • भगज्ज्ञानस्य अपात्रे अनाख्येयत्वम् *

नैतद्गुह्यतरं ज्ञानमाख्येयमतिमानिने।
नाभक्ताय न हीनाय न चाशुश्रूषवे पुनः।। 12.66 ।।
नादीक्षिताय दातव्यं न कृतघ्नाय पापिने।
स नास्तिकाय चाख्येयं न च पाषण्डिने तथा।। 12.67 ।।
न हीनवर्णिने नैव पिशुनाय दुरात्मने।
नैव चानुप (40) नीताय न बाह्या गमसङ्गिने।। 12.68 ।।
(40. सन्नाय.)
न चाप्यसूयवे चापि त्यक्ताचाराय पर्हिचित्।

  • योग्रपत्र निरूपणम् *

वक्तव्यं च विनीताय शुद्धाय ब्रह्मचारिणे।। 12.69 ।।
शुश्रूषवे प्रसन्नाय (41) व्रतिने वशिने तथा।
आश्रमस्थाय संसारविमुखाय मुमुक्षवे।। 12.70 ।।
(41. यतये.)
जिज्ञासमानाय तथा पाञ्चरात्रो (42) दितां क्रियाम्।
सुशीलाय कृतज्ञाय ऋजवे ऋजुबुद्धये।। 12.71 ।।
(42.दितिक्रमाम्.)
छन्दांस्यधीतिने साङ्गं कुलीनाय तपस्विने।
त्रैवर्णिकाय संवर्त महर्षे संहितामिमाम्।। 12.72 ।।
नाध्यापयेन्नोपतिशेन्नविद्यामरये वदेत्।

  • उक्तानुवाद पूर्
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_१२&oldid=206964" इत्यस्माद् प्रतिप्राप्तम्