सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अहिर्बुध्नसंहिता
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
अहिर्बुध्नसंहितायाः अध्यायाः



प्रतिसंचरवर्णनं नाम चतुर्थोऽध्यायः

नारदः---
भगवन् देवदेवेश सर्वज्ञ वृषकेतन।
किं तत् कारणमित्युक्तं सृष्टये 1यत् प्रवर्तते ।। 4.1 ।।
सुदर्शनेन यद् व्याप्तं रूपतः कार्यतोऽर्थतः।
विस्तरेण ममाचक्ष्व जगतः कारणं परम् ।। 4.2 ।।

प्राकृतप्रलयवर्णनम्
अहिर्बुध्न्यः---
प्रोच्यमानं मया तत्त्वं कारणस्यावधारय।
तत्र तावन्निबोधेमं प्राकृतं प्रतिसंचरम् ।। 4.3 ।।
येन कालेन सा विद्या प्रकृतिर्मूलसंज्ञिता2 ।
सस्यादिसृष्टये धेनुरभवन्मेघरूपिणी ।। 4.4 ।।
कालेन तावता सा तु चिकीर्ष्ये प्रतिसंचरे।
अधेनुर्नीरसा शुष्का भवत्यव्यक्तसंज्ञिता ।। 4.5 ।।

नारदः---
3कालेन कियता सर्गः सा धेनः कामरूपिणी।
अधेनुः सा भवेद् देवी यावता प्रतिसंचरे ।। 4.6 ।।


1. तत् D.2.स्थूलसंज्ञिता A B C E F J
3.कालेन तावता सा तु चिकीर्षे प्रतिसंचरे J; अयं श्लोकः D पुस्तके न दृश्यते



प्रतिसंचरकालपरिमाणम्
अहिर्बुध्न्यः---
अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला।
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादश स्मृतः ।। 4.7 ।।
ते तु पञ्चदशाहः स्यात् तावती रात्रिरिष्यते।
ते4 पञ्चदश पक्षः स्यात् पक्षौ द्वौ मास 5इष्यते।। 4.8 ।।
संवत्सरो मानुषस्तु तैर्द्वादशभिरिष्यते।
काम्यः षोडशभिस्तैस्तु काम्याब्दानां 6तथा मुने।। 4.9 ।।
..................................
विद्या धेतुरधेनुश्च भवेत् कालेन तावता।
अधेन्वां तु ततस्तस्यां चिकीर्ष्ये7 प्रतिसंचरे ।। 4.10 ।।

सर्वस्य पृथिव्यां लयः

नीरसं शुष्कमेवासीज्जगदेतच्चराचरम्।
महावातेन संशुष्कं संदग्धं 8च महाग्निना ।। 4.11 ।।
आ शैलादा तृणाच्चैव यदा भूमौ समुन्नतम्।
मानवेषु लयं यान्ति 9तदा मानवमानवाः ।। 4.12 ।।


1.सर्वेषु पुस्तकेष्वयमेव पाठः
2 उच्यते E.F.
3.तु यन्मुने D.
4.चिकीर्षेJ.
5.तन्महाग्निना E J; तन्महात्मना F.
6.तदेत्यादि पादद्वयं B C पुस्तकयोर्न दृश्यते


मनुष्वेव लयं यान्ति मानवास्ते चतुः शतम्।
एवं चेतनवर्गे तु मनुष्वेव लयं गते ।। 4.13 ।।
मिथुनान्येव चत्वारि मनूनां केवलानि तु।
कूर्मपृष्ठसमानायां भुवि तिष्ठन्ति वै मुने ।। 4.14 ।।

पृथिव्या अप्सु लयः
10नारायणस्य संकल्पादव्याहतसुदर्शनात्।
भूमेर्गन्धात्मकं सारं ग्रसन्त्यापस्तदा मुने ।। 4.15 ।।
आत्तगन्धा यदा भूमिरम्भसा 11कारणात्मना।
12अतिभूय तदा पृथ्वीं मनवोऽप्सु व्यवस्थिताः ।। 4.16 ।।
12भूमिस्त्वात्तरसा शश्वज्जहाति व्चक्तिनामनी।
15प्रभवन्त्याप एतर्हि जगदेतच्चराचरम् ।। 4.17 ।।

अपां तेजसि लयः
संकल्पादेव पूर्वस्मात् सुदर्शनमयाद्धरेः।
अपामपि रसं सारं ज्योतिर्ग्रसति कारणम् ।। 4.18 ।।
अतिभूय तदापस्तु मनवो ज्योतिषि स्थिताः।
आपश्चात्तरसाः शश्वज्जहति व्यक्तिनामनी ।। 4.19 ।।
देदीप्यमानमेतर्हि ज्योतिरेव जगन्मुने।


1.J omits verse 15.
2.करणात्मन A.
3.अतिक्रम्य J.
4.आत्तगन्धा च सा भूमिर्जहाति व्यक्तिनामनी D.
5.संभवन्त्यप एतर्हि A B C;संभवन्त्याप एतर्हि E F;संभवन्त्याप एताभिः J.


तेजसो वायौ लयः
संकल्पचोदितो विष्णोर्वायुः कारणसंज्ञितः ।। 4.20 ।।
ज्योतिषोऽप्यान्तरं रूपं सारं ग्रसति तद् ध्रुवम्।
संकल्पचोदिता15 विष्णोर्मनवोऽपि तदा मुने ।। 4.21 ।।
अतिभूयाखिलं ज्योतिर्वायुमेव श्रयन्ति ते।
आत्तरूपं तदा ज्योतिर्जहाति व्यक्तिनामनी ।। 4.22 ।।
वायुर्दोधूयमानस्तु जगदेतच्चराचरम्।

वायोराकाशे लयः
16ततः कारणमाकाशं विष्णोः संकल्पचोदितम् ।। 4.23 ।।
सारं ग्रसति संस्पर्शं कारणं वै नभस्वतः।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ।। 4.24 ।।
नभस्येवावतिष्ठन्ते व्यतिभूय समीरणम्।
आत्तस्पर्शस्तदा वायुर्जहाति व्यक्तिनामनी ।। 4.25 ।।
भृशं शब्दायमानं तद्वियद्विश्वं चराचरम्।

आकाशस्याहंकारे लयः
क्रियाशक्तीरितो विष्णोरहंकारोऽभिमानवान् ।। 4.26 ।।
सारं ग्रसति शब्दाख्यं कारणं नभसो मुने।
तयैव प्रेरिता विष्णोरतिभूय वियत्पदम् ।। 4.27 ।।


1.चोदितो A B C
2.J omits this line.


अहंकारेऽवतिष्ठन्ते मनवो भगवन्मयाः।
आत्तशब्दं वियत् तच्च जहाति व्यक्तिनामनी ।। 4.28 ।।
अहमित्येव तद्विश्वमहंकारात्मकं मुने।

अहंकारस्य बुद्धौ लयः
अभिमानात्मकं 17सारमहंकारस्य कारणम् ।। 4.29 ।।
सुदर्शनेरिता विष्णोर्बुद्धिर्ग्रसति वै मुने।
सुदर्शनेरिता विष्णोरतिभूय त्वहंकृतिम् ।। 4.30 ।।
बुद्धावेवावतिष्ठन्ते मनवोऽष्टौ महामुने।
आत्ताभिमानोऽहंकारो जहाति व्यक्तिनामनी ।। 4.31 ।।
बुद्धिरेवेदमखिलं व्यवसायवती मुने।

बुद्धेस्तमसि लयः
सारमध्यवसायाख्यं बुद्धेः कारणमव्ययम् ।। 4.32 ।।
सुदर्शनेरितं विष्णोस्तमो ग्रसति कारणम्।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ।। 4.33 ।।
अतिभूय तदा बुद्धिं तमस्येव श्रिताः स्थितम्।
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।। 4.34 ।।
अप्रतर्क्यमविज्ञेयं संस्तब्धं गुरु मोहनम्।

इन्द्रियाणां भूतैः सह तत्तत्कारणेषु लयः

घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम् ।। 4.35 ।।


1. सारमभिमानस्य A B C D.


पायूपस्थं तथा पादौ हस्तौ वाक् चैव पञ्चमी18।
द्वयोः पञ्चकयोर्द्वन्द्वं घ्राणपाय्वादिकं क्रमात् ।। 4.36 ।।
महीजलादिभिर्हेतौ लीयमानैः19 स्वके स्वके।
समं विलयमायाति सह 20घ्राणादिवृत्तिभिः ।। 4.37 ।।
मनोऽहंकार इत्येतत् सवृत्ति करणद्वयम्।
अहंकारे लयं याति बुद्धौ बोधनमिन्द्रियम् ।। 4.38 ।।
तम एवेदमखिलमिदानीमवतिष्ठते।

तमसो रजसि लयः
स्थितिशक्तिर्हि या 21चास्य तमसो गुरुतामयी ।। 4.39 ।।
रजो ग्रसति तां शश्वदीश्वरेच्छाप्रचोदितम्।
इच्छया प्रेरिता विष्णोर्मनवोऽपि महामुने ।। 4.40 ।।
रजस्येवावतिष्ठन्ते व्यतिभूय तमोगतिम्।
आत्तसारं तमस्तत्तु जहाति व्यक्तिनामनी ।। 4.41 ।।
चलक्रियात्मकं दुःखं रज एव जगत् तदा।

रजसः सत्त्वे लयः

या सा स्पन्दमयी शक्तिश्चलत्तात्मा22 रजोमयी ।। 4.42 ।।
तां वै सुदर्शनादिष्टं सत्त्वं ग्रसति कारणम्।
रजःस्था मनवश्चैव विष्णुसंकल्पचोदिताः ।। 4.43 ।।


1.पञ्चमम् A B C E F J.
2 लीयमाने E F J.
3.प्राणादि A B C D.
4.तस्य D.
5.चलितात्मा E.चलतात्मा A B C D E G J.


अतिभूय रजः सत्त्वं विशन्ति विमलं मुने।
आत्तसारं रजस्तत्तु जहाति व्यक्तिनामनी ।। 4.44 ।।
लघु प्रकाशकं सत्त्वमिदमासीच्चराचरम्।

सत्त्वस्य काले लयः
कालो नाम गुणो विष्णोः सुदर्शनसमीरितः ।। 4.45 ।।
सारं 23प्रज्ञामयं सत्त्वादादत्ते ज्ञानकारणम्।
अतिभूय तदा सत्त्वं मनवः कालसंश्रिताः ।। 4.46 ।।
काल एव जगत् कृत्स्नमिदमासीत् तदा मुने।
आत्तसारं च तत् सत्त्वं जहाति व्यक्तिनामनी ।। 4.47 ।।

कालस्य नियतौ लयः
काली कालगता शक्तिर्या साशेषप्रकालिनी।
नियतिर्नाम तां तत्त्वं ग्रसतीश्वरचोदिता ।। 4.48 ।।
24सुदर्शनेरितास्ते च मनवोऽष्टौ महामुने।
अतीत्य कालतत्त्वं तां नियतिं प्रतिपेदिरे ।। 4.49 ।।
आत्तसारस्तदा कालो जहाति व्यक्तिनामनी।
नियतिर्नाम सा विश्वमिदमासीच्चराचरम् ।। 4.50 ।।

नियतेः शक्तौ लयः

महाविद्यामयी शक्तिर्नियतेर्या महामुने।
शक्तिर्नाम तदा तां तु ग्रसतीश्वरचोदिता ।। 4.51 ।।


1.प्रख्यामयमिति सर्वत्र.
2.इत आरभ्य श्लोकत्रयं D J पुस्तकव्यतिरिक्तेषु नास्ति।


मनवोऽपीश्वरादिष्टा नियतिं तामतीत्य वै।
शक्तिं मायामयीं विष्णोर्विशन्ति विपुलात्मिकाम् ।। 4.52 ।।
नियतिश्चात्तसारा सा जहाति व्यक्तिनामनी।
अथ शक्तिरिदं विश्वं जगदासीच्चराचरम् ।। 4.53 ।।

शक्तेः कूटस्थपुरुषे लयः
आ चैतन्योन्मिषत्तायाः शक्तेः शक्तिः सनातनी।
सुदर्शनेरितस्तां तु पुरुषो ग्रसति स्वयम् ।। 4.54 ।।
अतीत्य मनवः शक्तिं तं विशन्तीश्वरेरिताः।
आत्तसारा तदा शक्तिर्जहाति व्यक्तिनामनी।। 4.55 ।।
सर्वात्मा सर्वतः शक्तिः पुरुषः सर्वतोमुखः।
सर्वज्ञः सर्वगः सर्वः सर्वमावृत्य तिष्ठति ।। 4.56 ।।
25मनूनामेष कूटस्थः पुरुषो द्विचतुर्मयः।
कृत्स्नकर्माधिकारो वै देवदेवस्य वै हरेः ।। 4.57 ।।
त्रयोदशानां भूम्यादिशक्त्यन्तानां महामुने।
विलीनस्वस्वकार्याणां 26काम्यवर्षशतस्थितिः ।। 4.58 ।।

कूटस्थपुरुषस्यानिरुद्धे लयः
पुंसस्त्रीणि शतानि स्युस्ततो मनुमयः पुमान्।
चतुर्धा 27स्वं विभज्याथ ब्रह्मक्षत्रादिभावतः ।। 4.59 ।।


1.मरुतामेष A.B
2.काम्यं वर्षशतं स्थितम् D; काम्यं वर्षशतस्थिति A B C E F G J.
3.सं A B C E F J.


स्वे स्वे स्थानेऽनिरुद्धस्य मुखबाह्वादिके मुने।
18प्रलीयते क्षणेनैव तप्तायः पिण्डवारिवत् ।। 4.60 ।।
ततोऽसौ भगवानेकः प्रलीनचिदचिन्मयः।
शतानि दश षट् चाथ29 वर्षाणामवतिष्ठते ।। 4.61 ।।

अनिरुद्धस्य प्रद्युम्नेऽप्ययः
अवस्थाय ततोऽप्येति प्रद्युम्नमजरं विभुम्।
निरुध्य सर्वचेष्टाः स्वास्तावत्कालं स तिष्ठति ।। 4.62 ।।

प्रद्युम्नस्य संकर्षणेऽप्ययः
ततः प्रद्युम्नसंज्ञोऽसौ भगवान् पुष्करेक्षणः।
अप्येति भगवन्तं तं संकर्षणमनामयम् ।। 4.63 ।।
कालं तिष्ठति तावन्तं सर्वदेवमयोऽडच्युतः।
चिदचित्खचितं विश्वं शुद्धाशुद्धमशेषतः ।। 4.64 ।।
तिलकालकवत् 30स्वस्य देहे ज्ञानमये दधत्।
उदयास्ताचलावेष देवः संकर्षणो बलः ।। 4.65 ।।
चिदिन्दोरचिदङ्कस्य कलास्ता अनुधावतः।
अहीनमहरेतद्धि संकर्षणमयं परम् ।। 4.66 ।।
यत्र नानाविधा भावा व्यज्यन्ते स्वस्वयाख्यया31।

संकर्षणस्य वासुदेवेऽप्ययः
शतानि षोडश स्थित्वा वर्षाणामयमच्युतः ।। 4.67 ।।


1.प्रलीयन्ते A B C.
2. चायं B C D.
3.स्वस्तिम् D.
4.ते स्वयाख्याया D.J.


अप्येति भगवन्तं तं वासुदेवं सनातनम्।
नासदासीत् तदानीं हि नो सदासीत् तदा मुने ।। 4.68 ।।
भावाभावौ 32विलोप्यान्तर्विचित्रविभवोदयौ।
अनिर्देश्यं परं ब्रह्मा वासुदेवोऽवतिष्ठते ।। 4.69 ।।
सा रात्रिस्तत् परं ब्रह्म तदव्यक्तमुदाहृतम्।
षण्णां युगानि विज्ञानबलादीनामशेषतः ।। 4.70 ।।