अहिर्बुध्नसंहिता/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ अहिर्बुध्नसंहिता
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →
अहिर्बुध्नसंहितायाः अध्यायाः


ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्याः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
ब्रह्मसात्रादिमन्त्रस्वरूपप्रश्नः

नारदः---
भगवत् सर्वधर्मज्ञ सर्वलोकनमस्कृत।
उक्तं चक्राद्विनिष्क्रान्मस्त्रजातमिह प्रभो ।। 34.1 ।
तेषां 1स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि।
विना त्वां 2न हि पश्यामि वेत्तारं कमपीश्वर ।। 34.2 ।।
तदुत्तरकथनाय तेषां गुह्यतमत्वाख्यानम्
अहिर्बुध्न्यः---
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम्।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ।। 34.3 ।।
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम्3 ।। 34.4 ।।


1.स्वरूपमस्त्राणां
2.नेह A B C E F
3.नमस्कृतम् A B C


1.ब्रह्मास्त्रम्
4फान्तं वह्निसमायुक्तं 5व्योम हालासमन्वितम्।
मेषद्वयं 6दन्तयुतं हालाहलमतः परम् ।। 34.5 ।।
घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम्।
सरसं चर्क्षपर्यायं 7भान्तं भृगुमतः परम् ।। 34.6 ।।
अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः।
प्रदीप्तमत वक्तव्यं परमं च पदं ततः ।। 34.7 ।।
तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः।
पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् ।। 34.8 ।।

2.दण्डचक्रम्
जीवः 8पञ्चवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः।
भृगुः सदीर्घो 9दण्डाद्यो मेषो यष्ट्यपराह्वयः ।। 34.9 ।।
आत्मने च पदं तत्र चक्रायेति पदं ततः।
वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते ।। 34.10 ।।

3. कालचक्रम्
11वारुणं मायया युक्तं वान्तं वारुणसंयुतम्।


4.वान्तं D
5.व्योम्ना कालसमन्वितम् D
6.द्वन्द्वयुतं A B C;दन्तयुगं E
7.भ्रान्तं A B C
8.पञ्चमवर्गाद्यं D
9.दन्ताद्याः D
10.चक्र इतीष्यते A B C E F
11.वरुणम् D


यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक्12।।
13धान्तं कालात्मनेत्येतच्चक्रायेति14 पदं ततः।
फडन्त एष मन्त्रस्तु 15 कालचक्रः 16प्रकीर्तितः ।। 34.12 ।।

4. धर्मचक्रम्
मोन यक्राच नेत्मर्मा तथा ध नमयेति च।
निलखीत्यपिचाकारो व्युत्क्रमेण 17प्रदृश्यते ।। 34.13 ।।
धर्मचक्रमिमं मन्त्रं विदुः पूर्वे महर्षयः।
5. विष्णुचक्रम्
तारपूर्वं च हृदयं भगाद्यन्तौ वनादिमः ।। 34.14 ।।
चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि।
पर्यायं लक्षसंख्याया आरेति च पदं ततः ।। 34.15 ।।
परमक्षत्र प्रयोक्तव्यं भिन्धीति च पदं ततः।
भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः ।। 34.16 ।।
6.इन्द्रचक्रम्
यषशो कं तथा नीवानदा वन्नपिरूमहि।
मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं18 स्मृत् ।। 34.17 ।
7.वज्रास्त्रम्
तारं चतुर्मुखः 19स्वङ्गनाथवान् दीर्घसंयुतः20।


12.रथाग्नियुक् A B C
13.सान्तं D
14.एकचक्रायेति B C
15.कालचक्रं B C E F
16.प्रकीर्तितम् B C E F; प्रवर्तितः D
17.प्रदर्श्यते D.E
18.चक्रमिति D
19.स्वङ्गं D
20.संयुतम् D


पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् ।। 34.18 ।।
फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात्।
21वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम्22।। 34.19 ।।
8. त्रिशूलम्
हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः।
वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् ।। 34.20 ।।
अथ शूलवरायेति भीमरूपपदं तथा।
दारयेति पदं तत्र मारयेति पदं ततः ।। 34.21 ।।
भीषयेति शिरोऽन्तं च त्रिशूलमिदमीरितम्।
9.ब्रह्मशिरोऽस्त्रम्
क्रोधी दण्डी च चण्डीशवीरान्तं वृश्चिकादिमम् ।। 34.22 ।।
आषाढयुक् 23सचण्डीशो हुं फड् ब्रह्मशिरः स्मृतम्।
10.ऐषीकास्त्रम्
हास्वा पक्षि यवद्रावि न्यंसैरप मरेति च ।। 34.23 ।।
24पकारं 25व्युत्क्रमेणेदमैषीकं परमं स्मृतम्।
11. मोदकी
भृगुः क्रोधी पिनाकी च सानन्तो मित्र इत्यपि ।। 34.24 ।।


21.वर्णास्त्र D
22.मीरितम् A B C
23.सझण्टीशो D
24.पकारात् A B; वक्रारम् B C; सतारम् D
25.व्युत्क्रमेणैवमैषीकं A B C


संतापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत्।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया26 ।। 34.25 ।।
12.शिखरी
लोहितश्च भुजंगेशो भृगुर्भौतिकसंयुतः।
मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः ।। 34.26 ।।
उमेशो मायया युक्तः शिखरीति पदं ततः।
ततो भेदिति फट् 27चैव शिखरी स्याद् गदाह्वया28 ।। 34.27 ।।
13. धर्मपाशास्त्रम्
वप्रान्तमाद्यं 29चण्डस्य मण्कडपे मध्यमं ततः।
दुर्वृत्तेति पदं तत्र 30गजपर्यायमप्युत ।। 34.28 ।।
द्विरावृत्तं बन्धयेति धर्मपाशमिदं विदुः।
14.कालपाशास्त्रम्
अत्रिर्मायान्वितः श्वेतः ससोमेशोऽथ पावकः ।। 34.29 ।।
षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात्।
विष्टम्भयेति च पदं द्विरावृत्तमतः परम् ।। 34.30 ।।
वर्मान्त एष मन्त्रस्तु कालपाश इतीरितः।
15.वरुणपाशास्त्रम्
तुन्दिलेति पदं पूर्वं सर्वेति च पदं ततः ।। 34.31 ।।


26. गदाद्वये A B C; गदान्वये D
27.चैष A B C
28. द्वये A B C; यये D
29.चन्द्रस्य B C E F
30 जगपर्यायमप्युत D.


वारणेति ततो घोररूपेति च पदं क्रमात्।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ।। 34.32 ।

16.आद्योऽशनिः
लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम्।
भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः ।। 34.33 ।।
अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत्।
अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः ।। 34.34 ।।
17. अन्योऽशनिः
यषभी 31णरदानोमरप इत्यपरोऽशनिः।
18. पौनाकास्त्रम्
अमरशोऽथ 32खान्तोऽग्निसंयुक्तो दण्ड इत्यपि ।। 34.35 ।।
अङ्कुशो भिन्धि भिन्धीति पैनाकममितद्युति।
19.नारायणास्त्रम्
विष्णुर्दण्डी पुनश्चाद्यो भुजङ्गो दीर्घसंयुतः ।। 34.36 ।।
आषाढो मायया युक्तः सुदर्शनपराह्वयः।
दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् ।। 34.37 ।।
वर्मास्त्रे च तथा ज्ञेये नारायणमिदं स्मृतम्।
20. पाशुपतास्त्रम्
सपिनाकी बको बिन्दुर्महामायासमन्वितः ।। 34.38 ।।


31.यरदा E F
32.कान्तो D


लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ।। 34.39 ।।
21.आग्नेयास्त्रम्
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ।। 34.40 ।।
विश्वामित्रपदं चापि तथा प्रशमनेति च।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ।। 34.41 ।।
एतदाग्नेयमत्युग्रं सुरासुरसुपूजितम्।
22.दयितास्त्रम्
बकश्च शूक्ष्मश्चण्डश्च भुजङ्गो दीर्घदण्डवान् ।। 34.42 ।।
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ।। 34.43 ।।
23.वायव्यास्त्रम्
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत्।
यक्षरक्षः पदे चैव पिशाचादीनिति क्रमात् ।। 34.44 ।।
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम्।
द्विरावत्तं ततः कुर्यादुत्सारयपदं क्रमात् ।। 34.45 ।।
वायव्यमेतद् विख्यातं त्रैलोक्ये सर्ववन्दितम्।
24.हयशिरोस्त्रम्
व्योम दण्डयुतं व्योम वाली शीताद्यमक्षरम् ।। 34.46 ।।
श्वेतो वह्नियुतो दीर्घो भुजंगो दीर्घसंयुतः।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः33 ।। 34.47 ।।
कबलीकुर्विति ब्रूयादयं 34हयशिरोमनुः।
25.क्रौञ्चास्त्रम्
नपन्तासरपेत्येष फडन्तः क्रौञ्च ईरितः ।। 34.48 ।।
26. प्रथमा शक्तिः
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ।। 34.49 ।।
27.द्वितीया शक्तिः
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः।
व्युत्क्रमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ।। 34.50 ।।
28.कङ्कालास्त्रम्
शिवोत्तमः सबिन्दुश्च क्रोधी 35दीर्घान्वितोऽनलः।
भान्तो दीर्घसमायुक्तो वाली फटिति 36चान्ततः ।। 34.51 ।।
कङ्काल एष कथितो मन्त्रः सर्वभयंकरः।
29. मुसलास्त्रम्
चण्डाद्यन्तौ क्रमान्न्यस्य रूपाद्यन्तौ ततः परम् ।। 34.52 ।।


33.मुण्डितः A B; पण्डितः B.C; पिण्डितः D
34.इयशिरा मनुः D
35.दीर्घादिकोऽपर D
36.वान्ततः D



आवर्तयेद् घातयेति तदेतन्मुसलं स्मृतम्।
30. कापालास्त्रम्
चण्डो भुजङ्गश्चात्रिश्च बको वह्निसमायुतः ।। 34.53 ।।
मुण्डो द्विगण्कडो मायी मा मेषद्वयमतः परम्।
शड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ।। 34.54 ।।
अस्त्रान्त एष मन्त्रः स्यात् कापालमतिभीषणम्।
31. कङ्कणी
अत्रिः सदीर्घो वह्निश्च मायया तु समन्वितः ।। 34.55 ।।
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः।
आद्यश्चतुरथवर्गस्य चण्डीशेन समन्वितः ।। 34.56 ।।
37दमयेति द्विरावृत्त्या मनुरेष तु 28कङ्कणी।
32.वैद्याधरास्त्रम्
हृदयं प्रथमं न्यस्य भगेति च पदं ततः ।। 34.57 ।।
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात्।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ।। 34.58 ।।
33.असिरक्तास्त्रम्
39खण्डिताद्यरिपर्यायं पदं शक्ते इति क्रमात्।
40वर्मान्तमसिरक्ताख्यमस्त्रमेतदुदाहृतम्।। 34.59 ।।


37.गमयेति D
38. कङ्कणिः D
39.खण्डितेत्यरिपर्यायं A B C
40.वर्मान्तमसिरक्तारव्यं मन्त्रमे A B C


34. गान्धर्वास्त्रम्
क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ।। 34.60 ।।
35. प्रस्थापनास्त्रम्
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ।। 34.61 ।।
प्रस्थापयेत्यथाभ्यस्य 41प्रस्थापनमुदाहृतम्।
36.प्रशमनास्त्रम्
लोहितः सानलो जीवो महामायासमन्वितः ।। 34.62 ।।
अत्रिर्द्विरण्डः42 पञ्चारिर्लान्तो मायी तलादिमः।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ।। 34.63 ।।
एतत् प्रशमनं नाम सर्वशत्रुनिवारणम्।
37. सौर्यास्त्रम्
तारं ततश्च हृदयं परायेति पदं ततः ।। 34.64 ।।
परेति पदमुच्चार्य तेजः पदमनन्तरम्।
निबर्हणाय चेत्येतत् फडन्तं 43सौर्यमुच्यते ।। 34.65 ।।
38. दर्पणास्त्रम्
अत्रिर्दण्डी च खड्गीशो मायया च समन्वितः।


41.प्रस्वापनम् A B C E
42.द्विरण्‌डा पण्कडारी D
43.सौरमुच्यते A F



44अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः ।। 34.66 ।।
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ।। 34.67 ।।
39. शोषणास्त्रम्
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ।। 34.68 ।।
एतच्छोषणमित्युक्तं विश्वारातिक्षयंकरम्।
40. संतापनास्त्रम्
आषाढो दीर्घसंयुक्तो लोहितो माययान्वितः ।। 34.69 ।।
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः।
मुण्डयुक्तं45 सवालि स्याद् भृगुराकाश एव च ।। 34.70 ।।
स्रमूर्ते इति च न्यस्य संतापयपदं ततः।
आवर्तयेदिमं मन्त्रं संतापनमुदाहृत् ।। 34.71 ।।
41. विलापनास्त्रम्
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ।। 34.72 ।।
आत्मने तु पदं पश्चात् फडन्तः स्याद्विलापनम्।
42. मदनास्त्रम्
हुं येमाहामरर्वादु व्युत्क्रान्तं मदनं स्मृतम् ।। 34.73 ।।


44.A B C E F omit five lines from here.
45. युग्मं B C E F


43.कंदर्पदयितास्त्रम्
चलगण्डमथो व्योम सामराधीश्वरं ततः।
महाकालः सदन्तः स्याद् व्योम मेषस्ततः परम् ।। 34.74 ।।
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः।
फडन्त एष मन्त्रस्तु कंदर्पदयितं स्मृतम् ।। 34.75 ।।
44.पैशाचास्त्रम्
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ।। 34.76 ।।
45. तामसास्त्रम्
अजेश्वरं त्रिरावृत्तं सदण्डं प्रथमं पठेत्।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ।। 34.77 ।।
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत्।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ।। 34.78 ।।
46. सौमनास्त्रम्
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम्।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ।। 34.79 ।।
वर्मास्त्रे च ततो ब्रूयादेतत् सौमनमुच्यते।
47.संवर्तास्त्रम्
भुजङ्गो दण्डवान् पश्चाद्रिपूनिति पदं वदेत् ।। 34.80 ।।
क्षिपेति द्विः शिरोऽन्तं स्यात् संवर्तमिदमुत्तमम्।
48.मौसलास्त्रम्
तिग्मेति वृत्ते इति च पदे पूर्वं पठेत् क्रमात् ।। 34.81 ।।
भिन्धीति च द्विरभ्यस्तं शिरोऽन्तं मौसलं स्मृतम्।
49.सत्यास्त्रम्
तारं प्रणामपर्यायं परमार्थाय इत्यथ ।। 34.82 ।।
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत्।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ।। 34.83 ।।
50.मायाधरास्त्रम्
तारं ततश्च हृदयं देवायेति पदं वदेत्।
मायात्मने इति पदं पठित्वा तदनन्तरम् ।। 34.84 ।।
फडन्त एष मन्त्रस्तु मायाधरमुदीरितम्।
51. घोरास्त्रम्
शिवोत्तमः सदण्डश्च पुनश्चायं सदन्तकः ।। 34.85 ।।
वह्निस्ततो भुजङ्गः स्यादङ्घ्रीशेन च संयुतः।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ।। 34.86 ।।
शिरोऽन्त एष मन्त्रस्तु घोरमस्त्रमुदीरितम्।
52.रत्यस्त्रम्
46भृगुरौद्रद्विकं रेफं द्विः कृत्वा प्रादिकान् पुनः ।। 34.87 ।।


46. D omits ten lines from here


शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम्।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ।। 34.88 ।।
53.अघोरास्त्रम्
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत्।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ।। 34.89 ।।
मीनमावृत्य 47मेषं च आषाढं लोहितं पुनः।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ।। 34.90 ।।
54.सौमास्त्रम्
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत्।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ।। 34.91 ।।
अन्त्यं द्विरभ्यसेदेतत् सौमास्त्रमिदमीरितम्।
55.त्वाष्ट्रास्त्रम्
प्रणवं हृदयं पूर्वं भृगुस्तेनैव संयुतः ।। 34.92 ।।
क्रोधी पिनाकी मेषश्च मायया च समन्वितः।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ।। 34.93 ।।
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः।
धाम्नो इति पदं ब्रूयात् परायेति पदं ततः ।। 34.94 ।।
एतत् त्वाष्ट्रं समाख्यातं सर्वलोकनमस्कृतम्।
56.दारुणास्त्रम्
विष्णुर्दण्डी पुनस्चाद्यो भुजंगो दीर्घसंयुतः ।। 34.95 ।।


47. मेधां च B C E F


आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः।
चतुर्मुखश्च क्रोधीशः फडन्तः 48स्यात्तु दारुणम् ।। 34.96 ।।
57.भगास्त्रम्
विपक्षादिममध्यान्तान्49 पठेद् विभजनेति च।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ।। 34.97 ।।
आत्मने इति निर्दिश्य भगास्त्रं तत् फडन्तिमम्।
58.शीतेष्वस्त्रम्
बकस्त्रिमूर्तिसहित आषाढश्च शिखी ततः ।। 34.98 ।।
पिनाकी खड्गिको मायी लोहितश्च तथोपरि।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ।। 34.99 ।।
शिरोऽन्त एष मन्त्रस्तु शीतेषुरभिधीयते।
59.मानवास्त्रम्
लोहितश्च भुजंगश्च दीर्घो वाल्यथ लोहितः ।। 34.100 ।।

50अग्निर्भान्तश्च वाली च सवह्निर्दीर्घसयुतः।
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात्।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ।। 34.101 ।।
60.रौद्रास्त्रम्
दहेति द्विरभ्यस्य पूर्वं प्रचण्ड-
प्रयोगं विधायाथ रूपेति पश्चात्।


48. स्यात्तदारुणम् D
49.मध्यान्तात् B C
50.अग्निश्चान्तश्च A B C D F


ततो रुद्रधाम्ने इति न्यस्य पश्चा-
च्छिरोवृत्तमेतत् परं रौद्रमाहुः ।। 34.102 ।।
61. प्रस्वापनास्त्रम्
अत्रिस्त्रिमूर्तिसहितोऽथ शिवोत्तमश्च
साग्निर्भृगुस्त्वमरनायकसप्रयुक्तः।
सुप्त्यन्तिमः करिपदं च ततः प्रयोज्यं
मायात्मिके इति फडन्तमसौ मनुः स्यात् ।। 34.103 ।।
प्रस्वापनं तदिदमाहुरशेषवैरि-
सेनासमस्तपरिमोहनकारि मुख्यम्।
इत्थं समस्तपरमास्त्रसमुद्धृतिस्तु
तत्त्वान्मया विरचिता परमेष्ठिसूनो ।। 34.104 ।।
तारं सद्योजातमाषाढमन्ते
खड्गेशानं भौतिकेनैव युक्तम्।
वह्निं मायासंवृतं तत्र चोक्त्वा
हृत्पर्यायं वर्म फट् चान्ततः स्यात् ।। 34.105 ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्यायः
आदितः श्लोकाः 2153
-------------********----------------