अथर्ववेदः/काण्डं ६/सूक्तम् ००४

विकिस्रोतः तः
← सूक्तं ६.००३ अथर्ववेदः - काण्डं ६
सूक्तं ६.००४
अथर्वा
सूक्तं ६.००५ →
१ त्वष्टा,पर्जन्यः, ब्रह्मणस्पतिः,अदितिः, २ अंशः, भगः, वरुणः, मित्रः, अर्यमा, अदितिः, मरुतः, ३ अश्विनौ, द्यौष्पिता। पथ्याबृहती, २ ......।

त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।
अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन् ।
द्यौष्पितर्यावय दुच्छुना या ॥३॥