एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४ व्यक्तिविवेके द्वितीयो विमर्शः ।
“रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कृरुराजसुताः सभृत्याः ।" इति शैलूषवचनाकर्णनक्रुद्धं भीमसेनं सान्त्वयितुं ‘सहदेवस्य आर्य ! अनुमतमेव नो भरतपुत्रस्य वचनम्' इति वचनम् । क्वचित पुनः प्रतीयमानार्थस्तदभिव्यक्तिनिब- न्धनं भवति, यथा - " आलिङ्गनादरचितस्थितिराबभौ या पत्युर्विकासपरिखाजलनीविबन्धा । विस्तारि सालजघनं परिवर्त्तमाननक्षत्ररत्नरशनागुणमुद्वहन्ती ।। इत्यत्र तदुचितविशेषणसामर्थ्योपस्थापितो नायिकार्थः पत्युरालिङ्गनादरचितस्थितस्य श्लेषस्य । यत्र त्वावृत्तिनिबन्धनगन्धोऽपि न सम्भवति न तत्रार्थन्तरावगतिरिति वृथैव तत्र कवीनामुभयार्थपदोपानिबन्धप्रयासः वाच्यावचनदोषदुष्टत्वात् । तत्र शब्दश्लेषे यथा- "क्ष्माभर्त्तुरस्य विकटः कटकः सपीलु- पालीकुलस्सहरिसैन्यशतावमर्दः । लक्ष्मी विलासधटनां नयति व्यपास्त- नानाधिकामचरमागधराजितश्रीः ।।" इति । यथा च - "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्रिक्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वा सर्वदोमाधवः ।।" इति । एवम् - " कह णाम ण होसि तुमं भाअणमसमञ्जसस्स णरणाह । णिच्चं चेअ कुणन्तो जहिच्छमत्थाण विणिओअम् ।।" इत्यादावपि द्रष्टव्यः । न ह्यत्र चाटौ निन्दायां वा निश्चयो निबन्धनाभावादिति । अर्थश्लेषे यथा - “दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशिदिशि विरमत्यह्नि संहारभाजः । दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।।”
* कथं नाम न भवसि त्व भाजनमससञ्जसस्य नरनाथ । । नित्यमेव कुर्वन् यथेच्छमर्थाना विनियोगम् ॥