एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके द्वितीयो विमर्श । ९३
इति । एष चार्थो न्यायासिद्धोऽपि मृदुमतीन् प्रति सुखप्रतिपत्तये वचनेन प्रतिपा- दितः । सा चेयमखिलस्यैव पदस्यावृत्तिरिष्यते ।। निबन्धनबलोद्भूता न तदंशस्य जातुचित् ॥ ९० ।। उपयुक्तार्थता ह्यस्य पदस्येव न विद्यते । अधुना तूपयोगेऽस्य पूर्वस्यार्थस्तिरोभवेत् ॥ ९१ ॥ अर्थप्रयोगो युगपल्लाघवेनोभयोरपि । स्यादयं कामचारो यद्येकेनोक्तिर्व्दयोर्भवेत् ।। ६२ ।। इत्यन्तरश्लोकाः । “यत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवळद्विजशुचिवदना मदिरामोदनिश्वसिताश्च प्रमदा" इत्यत्र चशब्दावेदितो विरोधः, तस्याप्यपिशब्दस्येव तदर्थाभिधानसामर्थ्योपग- मात् । यथा - “घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ।" इत्यसिद्धं विरोधस्य साक्षाच्छब्देनाप्रदर्शितत्वम् । "ख येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये । ये मूर्धस्ववभासिनः क्षितिभृता ये चामराणां शिरां- स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रियै सन्तु वः ।।" इत्यत्रोभयषां पादानां व्यतिरेकोऽनुमेयस्तत्र चैषां भिन्नविशेषणत्वमेव हेतु । अभिन्न- विशेषणत्वे हि निबन्धनसद्भावे सति सादृश्यमात्रं प्रतीयेत न व्यतिरेकः, यथा- "भक्तिप्रह्लविलोकनप्रणयिनी नीलोल्पलस्पार्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ।। इत्यादौ । भिन्नाविशेषणत्वे तु तेषामन्योन्यविशेषप्रतिपत्तिः । विशेषो हि न भेदमन्तरेण भवति । स एव च व्यतिरेको नापर इति भिन्नविशेषणत्वानुमेय एवासौ न शब्द- शक्तिमूलः । तच्चाभिव्यक्तिनिबन्धनम् । क्वचिदन्यदीयं वचनमपि भवति । यथा बेणीसंहारे ---
१, ‘हासाश्च' इति खपुस्तके पाठ, ।