सुहृद्भेदः. ] दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः। स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ १३४॥ अपर च- स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर्वषैः श्वपुच्छः प्रकृतिं गतः ॥ १३५ ।। अन्यच्च- वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ १३६ ॥ अतोऽहं ब्रवीमि- अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम् । एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥ १३७ ।। तथा चोक्तम्- स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यातुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मदं करोति स सुखो यस्तृष्णया मुच्यते। तन्मित्रं यदकृत्रिमं स पुरुषो यः, खिद्यते नेन्द्रियैः॥१८॥ यदि सजीवकव्यसनादितो विज्ञापितोऽपि स्वामी न निवर्तते तदा भृत्यस्य न दोषः । तथा च- नृपः कामासक्तो गणयति न कार्यं न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मानध्मातः स पतति यदा शोकगहने तदा भृत्ये दोषान्क्षपात न निजं वैयविनयम् ॥१३९॥ पिगलक -( स्वगतम् ) न परस्यापराधेन परेषां दण्डमाचरेत् । आत्मनावगतं कृत्वा बन्नीयात्पूजयेञ्च वा ॥ १४० ॥ तथा चोक्तम्- गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे । स्वनाशाय यथान्यंस्तो दर्पोत्सर्पमुखे करः ॥ १४१॥
पृष्ठम्:हितोपदेशः.djvu/७५
दिखावट