सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(७४)
[ हितोपदेशे-
 


अन्य छ-

विषदिग्धस्य भक्तस्य दन्तस्य चालतस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ १२६॥

किच-

यः कुर्यात्सचिवायत्ता प्रियं तव्यसने सति ।
सोऽन्धवज्जगतीपालः सीदेसंचारकैर्वना ॥ १२७ ॥

सर्वकार्येषु स्वेच्छात’ प्रवर्तते । तदत्र प्रमाण स्वामी । एतच्चाह जानामि ।

न सोस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्य साकाद्धं वीक्षते न कः ॥ १२८॥

सिहो विमृश्याह-६ भद्र। यद्ययेव तथापि सजीवकेन सह मम महान् स्नेह ।

पृश्य-

कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ १२९ ॥

अन्यच्च-

अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्धमन्दिरसोरेऽपि कस्य वह्नावनादरः॥ १३० ॥

दमनकः पुनरेवाह- देव ! स एवातिदोष । यतः-

यस्मिन्नेवाधिकं चक्षुरारोहयात पार्थिवः ।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥१३१॥

शृणु देव ।

अप्रियस्यापि पथ्यस्य परिणामः सुखावहः।
वक्ता श्रोता च यत्रास्ते रमन्ते तत्र सम्पदः ॥ १३२ ॥

त्वया च मूलभृत्यानपास्यायमागन्तुक. पुरस्कृत । एतच्चानुचित कृतम्। यत -

मूलभृत्यान्परित्यज्य नागन्तून्प्रात मानयेत् ।
नातः परतरो दोषो राज्यभेदकरो यतः ॥ १३३ ॥

 सिहो ब्रूते-'महदाश्चर्यम्, मया यदभयवाच दत्वानीत सवर्धितश्च, तत्कथ मह्य द्रुह्यति १ ' दमनको ब्रूते- देव ।।