सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुद्धेदः.] आकारैराङ्गतैर्गत्या चेष्टया भाषणेन च । नेत्रव¥विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ ४६॥ अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेन स्वामिनमात्मीयं कारष्यामि । यतः-- प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमें कोर्प यो जानाति स पण्डितः ॥४७॥ करटको ब्रूते-* सखे ! त्व सेवानभिज्ञ । पश्य---- अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ ४८ ॥ दमनको ब्रूते-* भद्र । कथमह सेवानभिज्ञ' १ पश्य- किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥४९॥ यत - यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवश नयेत् ॥ ५० ॥ अन्यच्च- कोऽत्रेत्यहामिति ब्रूयात्सम्यगादेशयेति च । आज्ञामावतथा कुर्याद्यथाशक्ति महीपतेः॥५१॥ अपर च- अल्पेच्छधृतिमान्प्राज्ञश्छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राजवसतौ वसेत् ॥ ५२ ॥ करटको ब्रूते कदाचित्वामनवसरप्रवेशादवमन्यते स्वामी । ' स चाह-

  • अस्त्वेवम्, तथाप्यनुजीविना स्वामिसान्निध्यमवश्य करणीयम् । यतः-

दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ५३॥ पृश्य- आसन्नमेव नृपतिर्भजते मनुष्य विद्याविहीनमकुलीनमपण्डितं वा ।