सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहृदः ।

-- ---  अथ राजपुत्रा ऊचुः-‘आर्य ! मित्रलाभ. श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेद श्रोतुमिच्छाम ।' विष्णुशर्मोवाच- सुहृद्भेदं तावच्छृणुत, यस्याय- माद्य श्लोकः-

वर्धमानो महास्नेहो मृगेन्द्रवृषयोर्वने।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥

 राजपुत्रैरुक्तम्-- कथमेतत् १' विष्णुशर्मा कथयति-

 अस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम महाधनः गनिवसति । तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः १.रणीयेति मतिर्बभूव । यतः--

अधोऽधः पश्यतः कस्य माहमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २ ॥

अपर च-

ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ ३ ॥

अन्यच्च--

अव्यवसायिनमलस दैवपरं साहसाच्च परिहीनम् ।
प्रमदेव हि वृद्धपातं नेच्छत्युपगुहितुं लक्ष्मीः ॥ ४ ॥

किञ्च-

आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥५॥

यतः-

संपदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ६॥