छिद्रं निरूप्य सहसा प्रविशत्थशङ्कः
सवै खलस्य चरितं मशकः करोति ॥८२ ॥
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥
अथ प्रभाते क्षेत्रपतिलगुडहस्तस्त प्रदेशमागच्छन्काकेनावलोकित । तमा- लोक्य काकेनोक्तम्- सखे मृग ! त्वमात्मान मृतवत्सदय वातनोदर पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ, यदाह शब्द करोमि तदा त्वमुत्थाय सत्वर पलायि- ध्यसे ।' मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकित । आ । स्वय मृतोऽसि' इत्युक्त्वा मृग बन्धनान्मो- चयित्वा पाशान्ग्रहीतु सयत्नो बभूव । तत कियहूरेऽन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्द श्रुत्वा ससम्भ्रम समुत्थाय पलायित । तमुद्दिश्य तेन क्षेत्रपतिना क्षिप्तेन लगुडेन शुगालो व्यापादित । तथा चोक्तम्--
त्रिभिर्वर्षेखिभिमसैत्रिभिः पौस्त्रिभिर्दिनैः ।
अत्युत्कः पापपुण्यैरिव फलमश्नुते ॥ ८४ ॥
अतोऽह ब्रवीमि--'भक्ष्यभक्षकयोः प्रीतिः' इत्यादि ॥काक पुनराह-
‘भक्षितेनापि भवता नाहारो मम पुष्कलः।
त्वाय जीवात जीवामि चित्रग्रीव इवानव ॥ ८५ ॥
अन्यच्च-
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥८६॥
कि च---
साधः प्रकोपितस्यापि मनो नायत विक्रियाम् ।
। न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७॥
हिरण्यको ब्रूते-चपलस्त्वम् । चपलेन सह स्नेह सर्वथा न कर्तव्य ।