सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मित्रलाभः. ]
२३
 


 इत्याकर्त्य स जम्बुक सकोपमाह- मृगस्य प्रथमदर्शनदिने भवानप्यज्ञा- तकुलशील एवासीत् । तत्कथ भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तर वर्धते-

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि दुमायते ॥ ७१ ॥

अन्यच्च-

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७२ ॥

 यथाय मृगो मम बन्धुस्तथा भवानपि । मृगोऽब्रवीत् * किमनेनोत्तरेण सर्वैरेकत्र विश्रम्भालापैः सुखाभ' स्थीयताम् । यत -

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७३ ॥

 काकेनोक्तम्-‘एवमस्तु' अथ प्रातः सर्वे यथाभिमतदेश गता । एकदा निभृतं शृगालो ब्रूते-‘सव ! अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति, तदह त्वा नीत्वा दर्शयामि ।' तथा कृते सति मृग' प्रत्यहं तत्र गत्वा सस्य खादति । ततो दिन- कातिपयेन गतेन क्षेत्रपतिना त दृष्ट्वा पाशो योजितः । अनन्तर पुनरागतो मृग- स्तत्र चरन् पाशैबद्धोऽचिन्तयत्-' को मामित कालपाशादिव व्याधपाशात् त्रातुं मित्रादन्यः समर्थ १' तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्- फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धि. । एतस्योत्कृत्यमानस्य मासासृग्लिप्तान्य- स्थीनि मयाऽवश्य प्राप्तव्यानि । तानि बाहुल्येन भोजनानि भविष्यन्ति । स चे मृगस्त दृष्ट्वाल्लासितो ब्रूते-* सखे छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यत'-

आपत्सु मित्रं जानीयाशुद्धे शूरमुणे शुचिम् ।
भाय क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥७४ ॥

अपरं च-

उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ७५॥',