द्वितीयो मयुखः । इत्यस्यानुषङ्गः, पुनरुक्त इत्यस्यावृत्तिश्च । चन्द्रा यस्य मुखस्य पुनरुको व्यर्थः, तस्य मुखस्य कुत उपमा । अयमर्थः ‘केनोपमीयत इत्यनेन पुनरुक इत्याशयः। यद्वा केनो- पमीयत' इत्यनुषङ्ग विनापि कुतस्तस्योपमा' इत्यनेनोपमानिषेधात्सधाकरस्य व्यर्थत्व: मर्थसिद्धमिति इलोके तदुक्तिः पुनकिरित्यर्थः । यथा वा- नाभूभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः ।। नाऽस्थापन्था धरणेः कणोऽपि प्रजेषु राज्ञां युगपद् धजत्छ । अत्र व्रजस्विति ‘नासीदगन्तेति पुन कम् । अयं च भीताश्वासनादौ गुण इत्यनित्यदोषः ॥ ३०-३१ ॥ दुष्क्रमग्राम्यसन्दिग्धाखयो दोषाः क्रमादमी । त्वद्भक्तः कृष्ण ! गच्छेयं नरकं स्वर्गमेव वा ।। ३३ ।। एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः ॥ ३३ ॥ दुक्रमेति । अनुचितक्रमेणाभिधानविषयत्वं दुष्कमम् । वैदग्धीराहित्येनो- व्यमानार्थत्वं ग्राम्यत्वम् । वक्तृतात्पर्य निश्चये प्रमाणान्तरापेक्षित्वं सन्दिग्धत्वम् । क्रमेणोदाहरणान्याह । त्वद्भक्त इति । अत्रे नरकस्यादावुक्तिः । स्वर्ग नरकमेव वेति युक्तम् । यथा वा-- भूपालरत्न ! निर्दैन्यप्रदानप्रथितोत्सव ! । | विश्रणय तुरङ्ग में मातङ्ग वा मदालसम् ॥ अत्र प्रार्थितबहुमूल्यस्त्वप्रासयत्वसम्भावनयाऽल्पमूल्यवस्तुप्रार्थनस्योचितत्वेन मातङ्गयाचनोत्तरे तुझ्याचनस्य युकत्वम् । एकं मे' इति ब्राम्योकिः । अत्र चुम्ब- नादिपदानामग्राम्यत्वेऽपि तादृशार्थस्याविदग्धपुरुषवाक्यार्थतया ग्राम्यत्वमित्याशयः । अतेति । अत्र तात्पर्य विषयनिश्चये प्रमाणान्तरापेक्षा ॥ ३२-३३ ॥ अनौचित्य कीर्तिलतां तरङ्गयति यः सदा ।। प्रसिद्ध्या विद्यया वापि विरुद्ध द्विविधं मतम् ॥ ३४ ॥ न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः । केतकी शिखरे शम्भोधचे चन्द्रकलातुलाम् ॥ ३५ ॥ अनौचित्यमिति । अभौचित्यम् अयोग्यसम्बन्धः। कीर्तिलतायास्तरसम्बन्धा- ऽयोग्यत्वात् । प्रसिद्धयेति । कविप्रसिद्धयेत्यर्थः । तेन कविप्रसिद्धिविरोध एव दोषो न लोकान्तरप्रसिद्धिविरोध इत्याशियः । विधयेति । शास्त्रेणेत्यर्थः । आद्योदाहरणम्- न्यस्तेति । अत्र प्रतापस्य धवलद्युतिः कविप्रसिद्धिविरुद्धा । प्रतापद्युतिस्तु कवि
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७४
दिखावट