सामग्री पर जाएँ

पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयो मयूखः ।। त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणैवाऽजनि योजनेयम् ॥ अत्र तदिति तद्देत्यर्थकम् ॥ २३ ॥ अस्थानस्थसमासमाह- द्विषां सम्पदमाच्छिद्य यः शूरान्समपूरयत् । अस्थानस्थसमासं न विद्वज्जनमनौरमम् ॥ २४ ॥. द्विषामिति । अत्र रौद्ररसानुगुणो दीर्घः समासस्तद्वयञ्जकपदेषु सम्पदमाच्छिचे. त्यादिषु न कृतस्तदनभिव्यञ्जककवेरुको ‘विद्वज्जनत्यत्र कृत इति भावः । इदमुप- लक्षणमस्थानस्थपदस्यापि । उदाहरणमपीदमेव । 'न विद्वज्जनमनोरममित्यन्न न बो- ऽन्ते उचितस्य 'अविद्वज्जनमनोरममितिबुद्धयापादकतयाऽस्थानस्थत्वात् । यथा वा- चत्वारो वयऋत्विजः स भगवान् कर्मोपदेष्टा इरिः सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभवलेशोपशान्तिः फलं. राजस्योपनिमन्त्रणाय रसति रूफीतं यशोदुन्दुभिः ॥ अऽध्वरपदस्य समासेऽन्तभवे ऋत्विगादीनां तदन्वयबोधः क्लेशेनेल्यस्थानस्थ. समासत्वम् ॥ २४ ॥ मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत् । वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥ २५ ॥ ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूमिभूषण !।। आकर्णय पयःपूर्णसुवर्णकलशायते ॥ २६ ।। । मिथ इति । सङ्कीर्ण द्विविधं प्रोक्त पदसङ्कीर्णं वाक्यसीण च । वाक्यान्सरपदान वाक्यान्तराजुप्रवेशे अयम् , वाक्यस्य वाक्यान्तराजुप्रवेशे द्वितीयमित्यर्थः । आद्यो-

  • दाहरण वक्त्रेणेति । अन्न वक्त्रचन्द्रपदे सङ्कीर्ण । द्वितीयोदाहरणं ब्रह्माण्डमिति । अन्न

भूमिभूषण ! कर्णंयेति वाक्यस्य महावाक्यान्तः पातः । अन्न काव्यप्रकाशे प्रसिदितत्वं दोषान्तरमुकम् । यथा- मीरादिषु रणितप्रायं पक्षिषु च कूजितप्रति । स्वनितमणितादि सुरते मेधादिषु गर्जितप्रमुखम् ॥ इविनियमातिक्रमरूपम् । तस्याप्रयुक्तमध्येऽन्तभवान्मूलेऽनुकिः ॥ २५-३६ . भग्नप्रक्रममारब्धशब्दनिवडहीनता । अक्रमः कृष्ण ! पूज्यन्ते त्वामनाराध्य देवताः ॥ २७ ॥ भग्नेति । आकाह्नितप्रकारकस्यार्थल्यानुक्तिरित्यर्थः । अक्रम इत्युदाहरणम् । अक्रमोऽनुचितम् । पूज्यन्ते अनाराध्येति प्रक्रममङ्गः । तथाहि-अत्रोऽनारायेति