{ लज्जया भीरुतया वा चारित्रमलीक् निगूहितुम् । |
श्रेष्ठिकायस्थौ--अज्जचारुदत्त ! भणाहि । अले लज्जाए; ववहारो खु एसो । [ आर्य चारुदत्त ! भण । अल् लज्जया । व्यवहारः खल्वेषः ।
चारुदत्तः---( सलज्जम् ) भो अधिकृताः ! मया कथमीदृशं वक्त- व्यम्---यथा गणिका मम मित्रमिति ? । अथवा यौवनमत्रापराध्यति, न चारित्र्यम् ।।
अधिकरणकः--
व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् । |
अलं लज्जया, व्यवहारस्त्वां पृच्छति ।।
चारुदत्तः-अधिकृत ! केन सह मम व्यवहारः १ ।।
शकारः-( साटोपम् ) अले ! मए शह ववहाले । [ अरे ! मया सह व्यवहारः ।)
चारुदत्तः-- त्वया सह मम व्यवहारः सुदुःसहः ।
शकारः-अले इश्तिआघादआ ! तं तादिशिं लअणशदभूशणिअं वशंतशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । [अरे ,स्त्रीघातक ! तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि ।।]
चारुदत्तः---असंबद्धः खल्वसि ।
अधिकरणिकः--आर्य चारुदत्त ! अलमनेन; ब्रूहि सत्यम् । अपि गणिका तव मित्रम् ।।
एव । 'नष्टके' इत्यपि पाठः (?) ॥ १७॥ व्यवहार इति । छलपरिहारार्थं चिरं