पृष्ठम्:मृच्छकटिकम्.pdf/२५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
मृच्छकटिके

{ लज्जया भीरुतया वा चारित्रमलीक् निगूहितुम् ।
स्वयं मारयित्वार्थकारणादिदानीं गूहति न तद्धि भट्टकः ॥ ]

 श्रेष्ठिकायस्थौ--अज्जचारुदत्त ! भणाहि । अले लज्जाए; ववहारो खु एसो । [ आर्य चारुदत्त ! भण । अल् लज्जया । व्यवहारः खल्वेषः ।

 चारुदत्तः---( सलज्जम् ) भो अधिकृताः ! मया कथमीदृशं वक्त- व्यम्---यथा गणिका मम मित्रमिति ? । अथवा यौवनमत्रापराध्यति, न चारित्र्यम् ।।

 अधिकरणकः--

व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् ।
ब्रूहि सत्यमलं धैर्यं छलमत्र न गृह्यते ॥ १८ ॥

अलं लज्जया, व्यवहारस्त्वां पृच्छति ।।

 चारुदत्तः-अधिकृत ! केन सह मम व्यवहारः १ ।।

 शकारः-( साटोपम् ) अले ! मए शह ववहाले । [ अरे ! मया सह व्यवहारः ।)

 चारुदत्तः-- त्वया सह मम व्यवहारः सुदुःसहः ।

 शकारः-अले इश्तिआघादआ ! तं तादिशिं लअणशदभूशणिअं वशंतशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । [अरे ,स्त्रीघातक ! तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि ।।]

 चारुदत्तः---असंबद्धः खल्वसि ।

 अधिकरणिकः--आर्य चारुदत्त ! अलमनेन; ब्रूहि सत्यम् । अपि गणिका तव मित्रम् ।।


एव । 'नष्टके' इत्यपि पाठः (?) ॥ १७॥ व्यवहार इति । छलपरिहारार्थं चिरं