पृष्ठम्:मृच्छकटिकम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
मृच्छकटिके

अपि च, विषग्रन्थिगर्भप्रविष्टेनेद कीटकेनान्तरं मार्गमाणेन प्राप्त मया महदन्तरम् । तत्कस्येदं कृप1णचेष्टितं पातयिष्यामि ?। आं, स्मृतं मया । दरिद्रुचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च, दरिद्रः खलु सः । तस्य सर्वं संभाव्यते । भवतु, अधिकरणमण्डपं गत्वाऽग्रतो व्यवहारं लेखयिष्यामि, यथा- चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावधिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथमासनानि दत्तानि तिष्ठन्ति ? । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिन्दार्वाचत्वरे मुहूर्तमुपविश्य प्रति2पालयिष्यामि ।]

( तथा स्थितः )

 शोधनकः-- अन्यतः परिकम्य, पुरो दृष्ट्वा ) पेदे अधिअरणिआ आअच्छंति; ता जाव उवसप्यामि । [एतेऽधिकरणका आगच्छन्ति। तशीवदुपसर्पामि।] ( इत्युपसर्पति ) ।

(ततः प्रविशति श्रेष्ठकायस्थादिपरिवृतोऽधिकरणिकः )

 अधिकरणिकःभो भोः श्रेष्ठिकायस्थौ ।।

 श्रेष्ठिकायस्थौ-आणवेदु अज्जो । [ आज्ञापयत्वार्यः ।]

 अधिकरणिकः–अहो ! व्यव3हारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः


मे क्षणेने बालाः क्षणकुन्तला वा । क्षणेन मुक्ताः क्षणमूर्ध्वचूडाः । जनिकाज्वलिकयोर्विशेषः (?) । चित्रो विचित्रः । हगे अहम् । राजश्यालः । 'चित्ते ण चित्तो' इति पाठे चित्रं न चित्रम् , यतोऽहं राजश्याल इति व्याख्येयम् । राजश्यालत्वेन मयि सर्वं संभाव्यत इति भावः ।। ३ । किमिणचिट्टिअं । कृपणचेष्टि-

                    • *** ***

टिप्प०-1 कृपणं च तच्चेष्टितं च कृपणचेष्टितमिति कर्मधारयः । एतद्वसन्तसेनामारणरूपं कुपणं दीनं कृत्यं कस्योपरि पातयितुं सुशक्यमिति भावः । 9 मार्गप्रतीक्षां करिष्यामि । ३ व्यवहारो नाम विवादः, तस्य परायत्ततया तन्मात्रप्रयोज्यत्वेन परस्यान्यस्य; अन्यत्स्मृतिशास्त्रं कामन्दकादिनीतिशास्त्रं बुद्धिश्च नीतिपट्टी सत्यासत्य-पराभिप्रायज्ञानं दुर्ज्ञेयमधिकरणकैर्न्यायाधीशैरिति तत्त्वम् । --



..---...