पृष्ठम्:मृच्छकटिकम्.pdf/२३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
नवमोऽङ्कः

छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दृरीकृतं
स्वान्दोषान् कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् ।
तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥

अपि च,--

छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः
स्वान्दोषान् कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् ।
ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥

यतोऽधिकरणिकः खलु

शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन-
स्तुल्यो मित्रपरस्वकेषु चरितं दृष्टैव दत्तोत्तरः ।।
क्लीबान्पालयिता शठान्व्यथयिता धर्म्यो न लोभान्वितो
द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥

 श्रेष्ठिकायस्थौ---अजस्स वि णाम गुणे दोसो त्ति वुञ्चदि । जइ एव्वं, ता चंदालोए वि अंधआरो त्ति वुञ्चदि। [ आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते ।]


तम् ] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥ ५ ॥ टिप्प०-1 श्लोकद्वयमिदं किञ्चिद्विशेषं वहदेकार्थमेव । छन्नं सत्यं कार्यमसत्येनाच्छादितमसत्यं सत्येन छन्नमित्यर्थः । न्यायो लेख्य-दिव्य प्रमाणविशिष्टो निर्णयः । प्रमाणं वाचनिकं चाक्षुषं पत्र-लेख्यादिना । एतेषामभावे दिव्यविधिवतरतीति ज्ञेयम् । न्यायसभायां पुरुषाः स्वान्दोषान्न कथयन्ति, यतः स्वय राग-लोभाभिभूतास्तारीदृक्षैः पुरुषैः पक्षापरपक्षाभ्यां वर्धितानि बलानि सामर्थ्यानि येषां तैदोषैरित्यर्थः । पक्षः स्वीयत्वाभिमानवाम् । अपरपक्षः स्वीयत्वाभिमानशून्यः । द्रष्टः प्राडिवाकस्य । 2 छन्नं कार्यं प्रतिपाद्य छन्नं दोषं प्रतिपादयति । साधवोऽपि ये रागलोभादिंना

परापरपक्षीयदोषैः सहिताः पापानि संकुर्वते ते ध्रुवं इहपरलोकभ्रष्टा भवन्धि इत्यर्थः ।