अथर्ववेदः/काण्डं १५/सूक्तम् १७

विकिस्रोतः तः
← सूक्तं १५.१६ अथर्ववेदः - काण्डं १५
सूक्तं १५.१७
अथर्वा
सूक्तं १५.१८ →
दे. अध्यात्मम्, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ४-५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्..........

योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥
योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥
योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥
योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥
योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥
योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥
योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥
समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥
यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥
एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥

[सम्पाद्यताम्]

टिप्पणी

व्यान प्राण के प्रथम तीन स्तरों पर आश्रित पृथिवी,अन्तरिक्ष और द्यौ के त्रितय को क्रमशः अन्नमय कोश, प्राणमय कोश और मनोमय कोश का समावेश करने वाली मानुषी-त्रिलोकी कहा जा सकता है। व्यानस्य विवेचनम्