अथर्ववेदः/काण्डं १५/सूक्तम् १८

विकिस्रोतः तः
← सूक्तं १५.१७ अथर्ववेदः - काण्डं १५
सूक्तं १५.१८
अथर्वा।
दे. अध्यात्मम्, व्रात्यः। १ दैवी पङ्क्तिः, - - - - -- -

तस्य व्रात्यस्य ॥१॥
यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥