पृष्ठम्:मृच्छकटिकम्.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
द्वितीयोऽङ्कः

 संवाहकः--(प्रकाशम् ) अज्ज ! अद्धे तुए मुक्के । [ अर्य ! अर्धं त्वया मुक्तम् ।।

 माथुरः-मुक्के । [मुक्तम् ।]

 संवाहकः—( द्यूतकरं प्रति ) अद्धे तुए वि मुक्के । [ अर्धं त्वयापि मुक्तम् ।]

 द्यूतकरः---मुक्के । [मुक्तम् ।]

 संवाहकः—संपदं गमिश्शं । [ सांप्रतं गमिष्यामि ।]

 माथुरः–पअच्छ तं दशसुवण्णं, कहिं गच्छसि ? । [प्रयच्छ तं दशसुवर्णम् । कुत्र गच्छसि ? ]।

 संवाहकः-–पेक्खध पेक्खध भट्टालआ ! हो, संपदं ज्जेव्व एक्काह अद्वे गंथु कडे, अवलाह अद्धे मुक्के । तहवि मं अबलं शंपदं ज्जेव्व मग्गदि । [ प्रेक्षध्वं प्रेक्षध्वं भट्टारकाः ! हा, सांप्रतमेव एकस्यार्धे गण्डः कृतः, अपरस्यार्धं मुक्तम् । तथापि मामबलं सांप्रतमेव याचते ।]

 माथुरः—( गृहीत्वा ) धुत्तु ! माथुरु अहं णिउणु । एत्थ तुऐ ण अहं धुत्तिज्जामि । ता पअच्छतं पेदंडआ ! सव्वं सुवण्णं संपदं । [ धूर्त ! माथुरोऽहं निपुणः । अन्न नाहं धूर्तयामि । तत्प्रयच्छ तं लुप्तदण्डक, सर्व सुवर्ण सांप्रतम् ।]

 संवाहकः--कुदो दइश्शं ?। [ कुतो दास्यामि ? ।]

 माथुरः--पिदरु विक्किणिअ पअच्छ । [ पितरं विक्रीय प्रयच्छ ।]


अर्धं सभिकेन मुक्तम् । अर्धं द्यूतकरेण । उभाभ्यां राशिरेव मुक्तः । इति मुक्तदेयत्वाद्यामीति ब्रूते ॥ भट्टारका इति मध्यस्थान्संबोधयति सांप्रतमेव एक्काह एकस्य । अद्धे अर्धेन । गंथु कडे । एकस्य सभिकस्यार्ध गण्डः कृतः ।द्यूतकरापेक्षितार्धेन द्यूतकरे व ( च ?) लग्नकः । अवलाह अद्धेण मुक्के इत्यपरस्य द्यूतकरस्यार्धेन मुक्तोऽस्मि । तच्च सभिकेनैवोपेक्षितम् । अत्र माथुरोऽहं निपुणः ।