पृष्ठम्:मृच्छकटिकम्.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
मृच्छकटिके

 माथुरः–अहुणा पअच्छ। [अधुना प्रयच्छ । ]

 संवाहकः—दइश्शं । पशादं कलेहि । [दास्यामि । प्रसादं कुरु।]

 माथुरः-—अले, णं संपदं पअच्छ । [ अरे, ननु सांप्रतं प्रयच्छ ।]

 संवाहकः–शिलु पडदि । [ शिरः पतति । ] ( इति भूमौ पतति )

( उभौ बहुविधं ताडयतः )

 माथुर–एसु तुमं हु जूदिअरमंडलीए बद्धोसि । [ एप त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि ।]

 संवाहकः-( उत्थाय, सविषादम् ) कधं जूदिअलमंडलीए बद्धो म्हि । ही, एशे अम्हाणं जूदिअलाणं अलंधणीए शमए । ता कुदो दइश्शं? । [ कथं द्यूतकरमण्डल्या बद्धोऽस्मि । कष्टम् , एषोऽस्माकं द्यूतकराणामलङ्घनीयः समयः । तस्मात्कुतो दास्यामि ? ।।

 माथुरः---अले, गंथु कुलु कुलु । [ अरे, गण्डः क्रियतां क्रियताम्।]

 संवाहकः--एव्वं कलेमि । ( द्यूतकरमुपस्पृश्य ) अद्धं ते देमि, अद्धं मे मुंचदु । [एवं करोमि । अधं तुभ्यं ददामि, अधे में मुञ्चतु ।]

द्यूतकरः–एव्वं भोदु । [एवं भवतु ।]

 संवाहकः---{ सभिकमुपगम्य ) अद्धश्श गंथु कलेमि । अद्धं पि में अज्ज्ञो मुंचदु । [ अर्धस्य गण्डं करोमि । अर्धमपि म आर्यो मुञ्चतु ।]

 माथुर:---को दोसु ? । एव्वं भोदु । [ को दोषः १ एवं भवतु ।]


दण्डक। उभे अपि देशी ।। अधुना प्रयच्छ, दास्यामि ॥ शिलु पहदि शिरः पतति, भ्रमतीत्यर्थः । इति भूमौ निपत्य स्थितः । एष त्वं खलु द्यूतकरमण्डल्या बद्धः ॥ ही कष्टम् । अस्माभिः सर्वः समय उल्लङ्घयते । एषोऽस्माकं द्यूतकरणामलङ्घयः समयः ॥ ‘गण्डं गण्डो लग्नकः' इति पूर्वटीका ।। एवं करोमि, मुञ्च ।।


पाठा०-१ गंडे,